SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६७ वन्दे मुदा श्रीगुरुपादपमम् । अथ श्रीपार्श्वनाथजिनस्तवनम् । सिद्धं हृदयनिरुद्धं बुद्धं ध्यानैर्लताभिरिव वृक्षम् । अतिशयमहिमाकक्षं वन्दे वामेयसुरवृक्षम् ॥ १ ॥ जिनमिह नवसमवक्षं भवप्रतियक्षं च सर्वगुणलक्षम् । केवलरमाकटाक्षं कुरु पक्षे दक्ष ! भवसमरे ॥ २ ॥ संमतिसंयतिसन्ततिसम्मतिदुर्गतिहं __ शोचनमोचन केवललोचन दर्शनदम् । अवचूरिः वामेयसुरवृक्षं श्रीपार्श्वजिनकल्पद्रुमं अहं वन्दे प्रणमामि इति सम्बन्धः । किंरूपं वामेयम् ! सिद्धं सिद्धसर्वकार्यम् । पुनः किंविशिष्टम् ? हृदयनिरुद्धं चित्ते गुम्फितम् । कैः ? बुद्धध्यानैः बुद्धा आचार्यादि परमा योगीन्द्रास्तेषां ध्यानैः । काभिरिव कम् इव ! यथा लताभिरुद्धं वृक्षं श्रीवीरज्ञानशालवृक्षं, पुनरपि राजगृहे नगरे भविष्यन् शालिवृक्षतपोत्पादरूपं अशोकवृक्षं वा जनो वन्दते । तथा बुद्धः ध्यानरुद्धं जिनमहं वन्द इत्यर्थः । पुनः किं विशिष्टम् ? अतिशयाश्चतुस्त्रिंशत् , महिमा ध्यातजनसर्वकार्यसिद्धिकर्तत्वं तेषामाकक्षोऽङ्गीकार आसमन्तात् कक्षं वनं वास्थानमित्यर्थः ॥ १॥ जिनमिह० हे दक्ष ? पण्डित ! जिनमधिकारात् पार्श्वनाथपक्षे साहाय्ये कुरु विदेहि । क्व ? भवसमरे संसारसंग्रामे किं ! नताः सर्वे यक्षा देवा यस्मै स तम् । पुनः भवप्रतिपक्षं संसारवैरिणं । पुनः किं सर्वगुणानां लक्षाणि यत्र स तम् । पुनः किं. केवललक्ष्म्याः कटाक्षबाणा यस्मिन् स तम् ॥२॥ संमति० हे केवललोचन ! हे शोचनमोचन ! शोचनस्य मोचनं त्यागो यस्य स तम् तस्य संबो. त्वां जिनम् हृदये प्रविधाय कृत्वा बुधाः पण्डिताः निजकर्ममलं तथा प्रदहन्ति, इव यथा शुद्धरसेन्द्रं पारदं मध्ये मुक्त्वा नागमलं सीसादिमलं प्रदहन्ति कनकं कुर्वन्तीत्यर्थः । कि विशिष्टं खाम् । सम्यगू मतिर्येषां तें सम्मतयः सम्मत. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy