SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अङ्गुष्ठात् पुरतस्तव क्रमभवादिङ्गाललीलावहं नो चेत् सर्वसुरासुरैः कथमहो शक्त्या जितं रूपकम् ॥६॥ अद्यावद्यकलापतापदलनक्रीडामिवातन्वती मूर्तिः स्फूर्तिमती लता सुरतरोर्मूर्ती मयोद्वीक्षिता । ब्रह्मज्ञानकलाविलासकुशलव्यापारपारङ्गतै योगीन्द्रैरनुभूतवैभव विभो ! तेनाऽनुमन्ये जनः ॥ ७ ॥ मूर्तिस्ते प्रविभाति मोहतिमिरप्रध्वंसभानुप्रभा मूर्तिस्ते भवसिन्धुमध्यनिपतव्योद्धृतौ नौर्टढा । मूर्तिस्ते सकलैहितार्थपटलीसम्पूरणे कामगौ___ मूर्तिस्ते मम तीर्थनाथ ! सततं श्रेयः श्रिये कल्पताम् ॥८॥ प्रातर्योऽष्टकमेतत् प्रमुदितचेताः प्रभोः पुरः पठति । कष्टसहस्रं तीर्खा लभतेऽसौ परममानन्दम् ॥ ९॥ ॥ इति श्रीशद्वेश्वरपार्श्वजिनस्तवनम् ॥ अथ श्रीस्तम्भनकेशपार्श्वजिनस्तवनम् । श्रीपार्श्व विश्वव्यसनापहारी व्यापारनिर्व्याजनवौजसस्ते । अयं जनः स्तम्भनकावतंस ! विज्ञापनावैनयिक तनोति ॥१॥ विज्ञीप्सतोऽभीप्सितमन्यदेवान मे निषेधात् त्वयि पक्षपातः। खेनैव रागादिरुजातुराणां जिहेमि तेषां तु पुरः प्रजल्पन् ॥२॥ जानामि जानासि यथा जिनेश! खेनैव मे क्लेशमयीमवस्थाम् । तथापि नाख्यातमृते प्रभूणां प्रायः प्रतीकारपरः प्रयत्नः ॥ ३ ॥ तद्भूयसी भक्तिरहं पुरस्ते विज्ञापनामज्ञतमोऽपि कुर्याम् । त्वं वीतरागोऽपि मुहूर्तमस्यां निस्सीमकारुण्यनिधेऽवधेहि ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy