SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३६ नोनमुन्मान मानेन मुनीनानेममाननम् । मीनानमिं नमन्नेमिमनूनामामिमीममाम् ॥ ६॥ मुनीनमेनोमीनानां निमाने नेमिमानिनम् । नेमिनामानमानाना ममो मान ममुं नमः ॥ ७ ॥ नेमीनमननं नेमिनमनं नेमिमाननम् । नेमिनाम्नो न नाम्नानमानानूनममी मम ॥ ८ ॥ इति स्तुतिं ये पुरतः पठन्ति श्रीनेमिनो व्यञ्जनयुग्मसिद्धाम् । श्रीवर्द्धमानोदयशालिनस्ते स्युः सिद्धिवध्वाः परिभोगयोग्याः ॥ ९॥ कृत्य? मां । एनः किंविधः ? मनोमुन्निमन्नम मनो मनसा मदहस्तं निम्नयति अल्पीकरोति । पुनः किंविधम् ? उन्नमान्माननोननम्, उन्नमन्तीं उत्सर्पन्तीं माननां पूजनां ऊनयति लंघनात्यर्थम् ॥ ५ ॥ नोनेत्यादि, ना पुरुषः, अम इम इत्यस्य धातोः आमिमाम आजगाम प्राप । काम् ? मां लक्ष्मीम् । किंविशिष्टाम् ? अनूनां सम्पूर्णाम् । किंकुर्वन् ? कं नेमिं ? किंविधं ? न ऊनं सहिवन् (?) कं नेमिं ? किंविधम् ? न ऊनं न रहितम् । केन ? उन्मानमानेन जलद्रोणं अर्द्धभारम् । " समइ सम्सिओ अ जो नवओ माणुम्माणुवमाणं इय भणियं जिणवरिंदेहिं" इतिवचनात् प्रमाणविशेषेण । किंविधम् ? मुनीनामेननं, मुनीनां सप्तर्षीणां इनः स्वामी चन्द्रः तद्वदनेमाऽखण्डा मा लक्ष्मीर्यस्य तत् । एवंविधमाननं मुखं यस्य । तथा मानङ् हिंसायां धातोर्मानीनं हिंसनं कर्ममित्यर्थः ॥ ६ ॥ मुनीनेत्यादि, अमुं नेमिनामानं मुनीनं मन त्वं इति सम्बन्धः । तथा एनांसि कल्मषाण्येव मीना मत्स्यास्तेषां निमाने हनने नेमिं चक्रधारामात्मानं मन्यन्ते ते एनोमीनानाम् निमाने । नेमिमानिनम् पुनः किंविधम् ? मुर्वी मवबन्धने इत्यस्य धातोः, अमोमाननं अबन्धकम् । केषाम् ? आनानाम् दशविधप्राणानां क्षीणकर्मत्वादित्यर्थः ॥ ७ ॥ नेमीनेत्यादि, नूनं निश्चितं मम अमा आनाः प्राणा जीवितः मनिनान्यर्थं यत्.. किं ? नेमीनस्य नेमिखामिनः, नमनं स्मरणं नेमीनमननम् । तथा नेमेर्नमनं नतिः तं नेमिनमनं नेमे मनिनं पूजनम् नेमिमाननं ने द्वौ नन्यौ प्रकृतमित्यर्थं गमयत इति नेमिनाम्नः आम्नानं । पुनः पुनः अभ्यसनं उत्कीर्तनमित्यर्थः ॥ ८ ॥ ॥ इति श्रीनेमिनाथस्तवनावचूर्णिः समाप्ता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy