SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७७ श्रीअनन्तजिनस्तवनम् ॥ १४ ॥ स्मयोद्धरक्ष्माधरवज्रपाणे! रामाकटाक्षक्रतुशूलपाणे!। मिथ्याहगालीबलिचक्रपाणे! सोपायमत्यै भव पद्मपाणे! ॥ १ ॥ मदासुहृत्संहृतिदण्डपाणे! ऽतिशायिपद्मोदधिपाशपाणे!। लक्ष्मी प्रयच्छाऽन्वयपद्मपाणे! कर्मव्यथातारकशक्तिपाणे! ॥ २ ॥ मुमुक्षुमार्गद्रुमसेकपाणे! निःसंशयानन्तसुधाभवाणे! । महान् कुरु प्रीणितरम्यवाणे! हे नेतरङ्गीकृतमानवाणे ॥ ३ ॥ शस्ते त्वयि क्लेशलताकृपाणे वर्तेत हृद्यस्य लसत्प्रमाणे। दधौ स्थितिं श्रीजितपञ्चबाणे नन्दात्र शीलोत्तमवारबाणे ॥ ४ ॥ इति मुदितमनस्को मूर्धगाचार्यनामा ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५ ॥ इति अनन्तजिनस्तवनम् । श्रीधर्मजिनस्तवनम् ॥ १५॥ भव्याशयो यः खलु शस्ततोषजनिः स्तवैस्त्वां पुरुषस्तुतोष । तमिन्दिरा विश्वकुवेलपोषसोमं स्वदृग्विभ्रमकैः पुपोष ॥ १ ॥ मतं त्वदीयं घनपापदोषप्रभुः प्रभो! यः पुरुषो दुदोष । भद्राणि तस्याऽऽशु शमाप्तिमोषमुखः स्मरस्तेनवरो मुमोष ॥ २ ॥ नीरागराजे खलु दुष्टदोषशक्तस्त्वयीशे जिन! यो रुरोष । वर्याऽपि हि प्रोज्झितपापशोषमुखा द्रुतं तस्य मतिः शुशोष ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy