SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६७ श्रीः । षोडशदलकमलबन्धबन्धुरा श्रीजिनस्तवन-चतुर्विंशतिका । रचयिता-तपागच्छगगनाङ्गणदिनमणि-श्रीमदकब्बरबादशाह प्रतिबोधक-जगद्गुरुश्रीहीरविजयसूरीश्वरशासनान्तर्वतिमुनिवर्य-श्रीमदमरविजय-शिष्यावतंस-मुनिमतल्लिकश्रीकमलविजयमुनिशिष्य: श्रीविजयप्रशस्तिकथा- रत्नाकर-कस्तूरिप्रकरणादिप्रणेता विद्व च्छिरोरत्नं श्रीहेमविजयो मुनिः । षोडशदलकमलबन्धबन्धुरं श्रीयुगादिजिनस्तवनम् ॥१॥ पयोजपाणिं वृषभं वृषाङ्क रमातनूजन्मभिदावृषाङ्कम् । महोदयश्रीरजनीमृगाकं गुरुं स्तुवे कीर्तिनिरस्तराकम् ॥ १ ॥ रुचिं दधानं परमामिताकं श्रीर्मङ्गलैस्तं समुपैति साकम् । हीलापहीणं श्रितपुण्यपाकं ररक्ष यस्त्वां हृदि बुद्धलोकम् ॥२॥ विद्याऽनवद्या तमुपैत्यशोकं जलेशयश्रीजितशाल्यशोकम् । यस्त्वां स्मरेत् पीडितकामघूकं सूरप्रभं हर्षितसाधुकोकम्॥३॥ रिपुव्रजाक्रान्तममुं वराकं पुन्नाग! पुन्नागनुतिष्वमूकम् । गर्भारसंसारजलैकमेकं वागवर्य! नाभेय! पुनीह्यशोकम् ॥४॥ - १ रमा-लक्ष्मीस्तस्याः तनूजन्मा मदनस्तस्य भेदने शङ्कर इव शङ्करः । २ इतंगतं अकं दुःखं यस्य यस्माद्वा स तम्। ३ कृष्णशोभाजितमनोहरकंकेल्लिवृक्षबन्तम् । ४ हे नरश्रेष्ठ । ५ कल्पवृक्षस्तुतिकारिणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy