SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६३ अथ युगादिजिनस्तवनम् । आनन्दद्मकन्दलीसुचरितश्रेणीपताकाञ्चलाः क्षुद्रोपद्रवतान्तिशान्तिकविधिव्यापारवारिच्छटाः । ब्रह्मज्ञानमहःस्फुलिङ्गततयः श्रीवल्लरीपल्लवाः श्रीनाभिप्रभवप्रभुक्रमनखज्योत्स्नाङ्कुराः पान्तु वः ॥ १ ॥ आद्यः सम्प्रति सर्ववेदिषु जितस्त्वेकाङ्कपताविव स्थानं तद्गुणिनो ददाति हृदये तद्देहिनां सन्ततम् । यश्चित्रं किल वृत्तवान् शतगुणां वृद्धिं ददौ सान्वये स श्रीमान् वृषभः शुभाय जगतां चिन्तामणिश्चिन्तितम् ॥ २॥ आद्यो नृपेषु सकृपेषु जिनाधिपेषु लोकेऽप्यनल्पपरिकल्पितशिल्पमार्गः। देवाधिदेवऋषभो वृषभोपयुक्तः स्वर्णच्छविः सपदि यच्छतु वाञ्छितानि ॥ ३ ॥ अवतु वो धरणीन्द्रफणावलीप्रतिफलद्विमलाकृतिसप्तकः । सकलकर्मजयार्थमिवाऽष्टधाकृततनुः प्रथमो जिनपुङ्गवः ॥४॥ उद्वाहे प्रथमोदरः किल कलाशिल्पादिके यो गुरु भूपश्च प्रथमो यतिः प्रथमकस्तीर्थङ्करश्चादिमः । दाताऽऽद्यः परिपात्रमाद्यमपरं सिद्धो यदम्बादिमः सञ्चक्री प्रथमश्च यस्य तनयः सोऽस्त्वादिनाथः श्रिये ॥५॥ कौ पार्श्वस्थौ वनभुवि युवां सेवको नाभिसूनोः ? किं निःसङ्गः फलतु युवयोः ? गच्छतं गच्छ न त्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy