SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ १५८ तदेवं दुस्तर्क्यव्यतिकरनिराशाक्षमधिया-" मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ १ ॥ वहत्यध्वा मुक्तेरविरतमयं भव्यनिकरा ननन्तोऽसौ कालस्तदपि न च ते यान्ति विरतिम् । तदेवं दुस्तर्क्य व्यतिकर निरासाक्षमधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ २ ॥ अवश्यं सेत्स्यन्ति स्फुटमिह हि भव्यास्तदपि भो अमी सिद्धेभ्यः स्युः खलु यदि कदाऽनन्तगुणिताः । तदेवं दुस्तव्यतिकरनिरासाक्षमधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासन विधिम् ॥ ३ ॥ अभाज्ये क्षेत्राणौ स्थितिमुपगतः पुद्गलगणः पृथगूरूपेणाssस्ते न च भजति सङ्घातनिचयम् । तदेवं दुस्तर्क्यव्यतिकरनिरासाक्ष मधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ ४ ॥ प्रदेशः स्वस्यैकः स्पृशति खलु दिकस्थानपि परान् पृथग्देशैः स्वस्याऽप्यवयवविहीनस्तदपि सः । तदेवं दुस्तर्क्य व्यतिकर निरासाक्षमधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ ५ ॥ दिगन्तं जीवोऽयं व्रजति समयैकेन घटयन् नभोऽणून निःसङ्ख्यास्तदपि च निराशो हि समयः । तदेवं दुस्तर्क्यव्यतिकर निरासाक्षमधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासन विधिम् ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy