SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २४१ पुष्पोत्तरे प्राणतकल्पगे घुसत् (२) स्वामिन्ननन्त (३) स्त्रिभवैः स्तुतोऽव माम् ॥ १४ ॥ प्राग् यो भवे दृढरथो नृपतिश्च धातकीषण्डे विदेहविजये भरताभिधेऽभवः (१) । लावा व्रतं विमलवाहनसंयतान्तिके सर्वार्थसिद्धिविबुधोऽव जिनेन्द्र ! धर्म ! माम् (३) ॥ १५ ॥ त्वं श्रीषेणनृपोऽभवः प्रथमतो ( १ ) युग्मी (२) च सौधर्मगो (३) यो नाम्नाऽमिततेजसा खचरराट् (४) श्रीप्राणते निर्जर : (५) । सीरी श्रीअपराजितो (६) ऽच्युतपति (७) वज्रायुधश्चक्रभृत् (८) चित्तरक्षगुर्वन्ते व्रतं लात्वा ( १ ) प्राणतगे पुष्पोत्तरविमाने सुरः ( २ ) ततः श्रीअनन्तजिनः (३) ॥ १४ ॥ धातकीखण्डद्वीपे प्राच्यविदेहे भरताहे विजये भद्दिलपुरे पुरे दृढरथराजा विमलवाहनगुर्वन्ते व्रतमादाय ( १ ) सर्वार्थसिद्धवि - माने सुरः (२) ततो रत्नपुरे श्रीधर्मनाथः (३) ॥ १५ ॥ जम्बूद्वीपे भरते रत्नपुरे पुरे श्रीषेणराजा पुत्रयुद्धं वीक्ष्य विरक्तः संसारे, विषमिश्र कमलमाघ्राय मृतः (१) देवकुरुषु युग्मी (२) सौधर्मे सुरः (३) जम्बूद्वीपेऽत्र भरते वैतान्ये रथनूपुरचक्रवालपुरेऽर्क कीर्तिराजा, ज्योतिर्माला राज्ञी, तयोः सुतोऽमिततेजा राजा, आयुःप्रान्ते दीक्षाऽनशने च सार्धमादाय २६ दिनानि प्रपाल्य (४) प्राणतकल्पे मणिचूलनामा सुरः ( ५ ) जम्बूद्वीपे विदेहे रमणीयाख्ये विजये शुभापुर्या तिमितसागरराजा, वसुन्धरा राज्ञी, तयोः पुत्र अपराजितनामा हली ८४ पूर्वलक्षायुः, प्रान्ते च १६ सहस्रनृपैः सह प्रव्रज्य ( ६ ) अच्युतेन्द्रः (७) ततो. जम्बूद्वीपे विदेहे मङ्गलावतीविजये रत्नसञ्चयानगर्यां क्षेमङ्करतीर्थङ्करराजा, रत्नमाला राज्ञी, तयोः पुत्रो वज्रायुधनामा चक्री व्रतमादाय प्रान्ते चाऽनशनं विधाय तो. स. १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy