SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रुतिपथगतमुच्चै म यस्याः पवित्रं विषमतमविषार्ति नाशयत्येव सद्यः । त्रिभुवनमहिता सा सम्मुखीभूतदेवी वितरतु कुरुकुल्ला सम्पदं मे विशालाम् ॥ ४ ॥ ज्वलनजलमृगेन्द्रोदामसङ्ग्रामशत्रु प्रभृतिकमपयाति त्वद्गतध्यानमात्रात् । धनतनयशरीरारोग्यसौभाग्यभाग्या दिकमुपचयमेत्यभ्यर्चनात् तावकीनात् ॥ ५ ॥ कियति महति दूरे त्वन्नतानां श्रुतश्री: कथमिव दुरवापा तैर्जगजैत्रलक्ष्मीः । असुलभमिह किंवा वस्तु तेषां समस्तं . - त्रिभुवनजननि ! त्वं वीक्षसे यान् प्रसन्ना ॥ ६ ॥ सुभटकरतले स्वं शस्त्ररूपाऽसि शक्ति स्त्वमवनिपतिषूच्चैदेवि! मन्त्रादिशक्तिः । किमपरमनिलादौ त्वं महाप्राणशक्तिः - सकलभुवनपूज्या त्वं च जैनेन्द्रशक्तिः ॥ ७ ॥ प्रतिविषयमजसं स्वेच्छया गच्छदेतत् ___पवनविजययोगात् सन्निरुध्य स्वचित्तम् । यदिह किमपि सन्तः सन्ततं धाम पश्य. न्यवितथमयमुच्चैदेवि! युष्मत्प्रसादः ॥ ८॥ सकलकरणरोधाद् ध्यानलीनस्य पुंसः __ स्फुरसि मनसि यस्य त्वं महोड्योतरूपा । सपदि विदलयन्ती तस्य जाड्यान्धकार समुदयति समन्तात् केवलज्ञानलक्ष्मीः ॥ ९ ॥ इति वादिचक्रवर्तिः श्रीदेवाचार्यविरचिता श्रीकुरुकुल्लादेवीस्तुतिः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy