SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०० श्रीमद्विजयानन्दसूरीन्द्रक्रमकमलाभ्यां नमः। अथ चतुर्विंशतिजिनस्तुतयः । यत्राखिलश्रीः श्रितपादपद्मयुगा दिदेव स्मरता नवेन । सिद्धिर्मयाप्या जिन ! तं भवन्तं युगादिदेव ! स्मरतानवेन ॥ १ ॥ समुद्भवो येन समूलदाहं देहे सदा भाविजयाङ्गजस्य । शिवं दिशन्तामजितस्य तस्य देहे सदाभा विजयाङ्गजस्य ॥२॥ चेतस्त्यजाति स्मरणैकतानंकल्याणरुच्या भव शम्भवस्य । त्वं च प्रभो ! मामनुकम्पयाऽऽशु कल्याणरुच्याभ वशं भवस्य ॥३॥ श्रीसंवरक्ष्मापसुतस्य भव्यश्रीभा जनानामभिनन्दनस्य । भक्तिप्रभावेन भवन्ति मुक्तिश्रीभाजनानामभिनन्दनस्य ॥ ४ ॥ अवचूरिः। __यत्राखिलेति । यत्र त्वयि अखिलश्रीः सुरासुरेन्द्रक्रियमाणसमवसरणादिसमग्रलक्ष्मीः , दिदेव क्रीडतीव पादावेव पद्मे कमले तयोर्युगं पादपद्मयुगं ततो बहुव्रीहिः । तं त्वां नवेन स्तोत्रेण स्मरता सिद्धिर्मुक्तिर्मयाऽऽप्या प्राप्या । हे युगा० स्मरतानवं कामकृशत्वं तेन उपलक्षणात्तत्क्षयेण हेतुना ॥१॥ समुद्भवः समुत्पत्तिर्येन । देहे दग्धः । कस्य समुद्भवः । सदा० सदा भावी भविष्यत् उपलक्ष. णाद्भूतभवन्नभूत(?)श्च हरिहरादिसेव्यत्वाजयो यस्य सचाऽसावङ्गजः कामश्च स तथा तस्य। कथम् ? समूलदाहं भीमो भीमसेन इत्यादिवत् समूलवृक्षदाहं तस्याऽजितजिनस्य देहे वर्तमानाः सदाभाः सत्कान्तयः शिवं कल्याणं दिशन्तां ददतु ममेति गम्यते । अजितस्य किंभूतस्य ? विजयादेवीपुत्रस्य ॥२॥ हे चेतः! त्वं त्यज परिहर आति तिर्यग्गतिनिदानव्याकुलतां, ततः शम्भवस्य स्मरणैकतानं सुरनरतीर्थाधिपत्यप्राप्तिसौख्यानि तेषां रुचिः स्पृहा तया हेतुभूतया भव । चशब्दस्याप्यर्थत्वात् त्वमपि मामाशु शीघ्रं अनुकम्पय वाञ्छितवितरणेनेति गम्यते । कस्य ? सुवर्णकान्तिवद् आभा दीप्तिर्यस्य स तथा, मां। किंभूतम् ? भवस्य कर्मवेष्टितत्वात् संसारस्य वशवर्तिनम् ॥ ३॥ अभिनन्दनस्य जिनस्य श्रीसंवरराजाङ्गजस्य भक्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy