SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः] प्रबन्धकोशेत्यपराह्वये धिकं लभ्यते अप्राप्तितः । 'चित्रकूटा'त् सिद्धसेनोऽथ पूर्वदेशे 'कार'पुरं गतः । तत्र देवपालराजानं(?) प्रबोध्य नीलीरागजैनमकार्षीत् । तत्रास्थात् । 'नित्यमिष्टा गोष्ठी वर्तते । कियानपि कालो 'जगाम । एकदा राज्ञा रह एल्य साश्रुणा विज्ञप्तम्-भगवन् ! पापा ५ वयं नेदृशमधुरभवद्गोष्ठीयोग्याः, येन सङ्कटे पतिताः स्म । सूरीन्द्रः पप्रच्छ--किं सङ्कटं वः ! । राजा प्राह-सीमालभूपालाः सम्भूय मद्राज्यं जिघृक्षव आयान्ति । सूरिराह-राजन् ! मा स्म विह्वलो भूः । तवैव राज्यश्रीर्वशे यस्याहं सखा । राजा हृष्टः । परचक्रमायातम् । विद्याद्वयशक्त्या राजेन्द्रः समर्थो विहितः सूरिणा । १० भग्नं परबलम् । गृहीतं तत्सर्वस्वम् । वादितान्यातोद्यानि । ततो बाढं राजा सूरिभक्तः सम्पन्नः । सूरयः सगच्छा अपि क्रियाशैथिल्यमादृषत । यतः-- चाटुकारगिरां गुम्फैः, कटाक्षैर्मृगचक्षुषाम् । कलिकल्लोलितैः 'स्त्रीणां, भिद्यते कस्य नो मनः ? ॥ १ ॥ १५ सुअई गुरू निच्चितो, सीसा वि 'सुअंति तस्य अणुकमसो । ओसाहिज्जइ मुक्खो, हुड्डाहुड्डे सुयंतेहि ॥१॥ श्रावकाः पौषधशालायां प्रवेशमेव न लभन्ते । दंगपाणं पुष्कफलं, अणेसणिजं गिहत्थकिच्चाई । अजया पडिसेवंती(?ता), जइवेसविडंबगा नवरं ॥ १ ॥१२ २० १ ग--घ--'नित्यमिष्टगोष्ठी' । २ घ--'जगाल' । ३ ग--घ--'मधुरगोष्ठी.' ४ ख---- श्रीणां' । ५ अनुष्टुप ।। ६ छाया- स्वपिति गुरुनिश्चिन्तः शिष्या अपि स्वपति तस्यानुक्रमतः । अवसद्यते मोक्षः स्पर्धया स्वपद्भिः ।। ७ घ--'सूयई। ८ घ--'स्वपंति'। ९ आर्या । १० छाया- दकपानं पुष्पफलमनेषणीयं गृहस्थकत्यामि । अयतना प्रतिसेवमाना यतिवेषविडम्बका नवरम् ॥ ११ ख-'पडिसेहती'। १२ आर्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy