SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे विश्वाग्निविश्वोन्मित( ३३३ )सूरिवर्ग श्चतुःसहस्री द्विशती (४२००) युता च । सङ्ख्या मुनीनां च दिगम्बराणा मेकादशानीह शतानि ( ११०० ) सङ्घे ॥३॥ त्रयः सहस्रास्त्रिशती ( ३३०० ) च भट्टाः शतं च सार्द्ध ( १५० ) वरनर्तकीनाम् । अश्वास्तु वेदाङ्कसहस्र( ४००० )सङ्ख्याः साशीति चत्वारि शतानि( ४८० ) तूष्ट्रयः ॥४॥ विक्रमार्कसमये सुरगर्षि-बध्न( १२६१ )वत्सरकृतादिमयात्रः । इत्थमद्भुतसमृद्धिसुकीर्ति-वस्तुपालसचिवः स मुदेऽस्तु ॥५॥ कोटीनां त्रिशतानि सप्ततिरहो कोटयस्त्रिभिः साधिका लक्षाः सप्ततिरद्भुतैकसुकृतेष्वासन् व्ययैः सर्वतः । मात्रा द्वादश यस्य सार्द्धसहिताः पूर्वोक्तसामग्रिका इत्थं कल्पतरुः श्रितार्तिहरणे श्रीवस्तुपालः कलौ ॥६॥ १५ जैनागारसहस्रपञ्चकमिति स्फारं च पादाधिकं लक्षं श्रीजिनमूर्तयः सुविहिताः प्रोत्तुङ्गमाहेश्वराः । प्रासादाः पृथिवीतले ध्वजयुताः सार्धं सहस्रद्वयं प्राकाराः परिकल्पिता निजधनैात्रिंशदत्र ध्रुवम् ॥७॥ सत्रागारशतानि सप्त विमला वाप्यश्चतुःषष्टयः २० प्रोचैः पौषधमन्दिराणि सुमहज्जैनाश्च शैवा मठाः । विद्यायाश्च तथैव पञ्चशतिकाः प्रत्येकतः प्रत्यहं पञ्चत्रिंशशतानि जैनमुनयो गृह्णन्ति भोज्यादिकम् ॥८॥ : १-२ उपजातिः । ३ स्वागता । ४-६ शार्दूल. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy