SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे २४ श्रीवस्तुपाल४ आकाशे जैनमुनिमूर्तिरोपणात् त्वत्परं दर्शनपूजाऽल्पस्वाय ५ गृहलीकृष्णा न मङ्गलाय ६ भारपदाः द्वादशहस्तप्रलम्बाः कालेन स कोऽप्येवंविधो न भविष्यति यः विनाशे ईदृशः प्रक्षेपयिष्यति ७ । इत्यादि श्रुत्वा सत्यं मत्वा न चुकोप कोऽपि । ५ भावतव्यतां चाप्रतिकारां निश्चिक्ये । विविधदानैर्विक्रमादित्य इव प्रकाश्य महिमानं विसृज्य स्वस्थाने लोकं सपरिजनो 'धवलकं' गत्वा प्रभुं नत्वा सुखं तस्थौ।। ___ इतश्च श्रीवीरधवलस्य द्वौ पुत्रौ स्तः । एको वीरमः, अपरो वासलः । तत्र वीरमो यौवनस्थः सूरेषु 'रेखां प्राप्तः यो वर्षा१० कालेऽकस्मादुपरि पतन्त्या विद्युत उद्देशेन कृपाणीमाकृषत् । स एकदा क्वचिदेकादशीपर्वणि 'धवलक्वक'मध्ये तरुतलमगमत् । तत्र पर्वण्यसौ रीतिः-- वैष्णवैः सर्वैरष्टोत्तरशतं बदराणां वा आमलकानां द्रम्माणां वा मोक्तव्यं तरोरधः । वीरमेनाऽष्टोत्तरं शतं द्रम्मा मुक्ताः । एकेन तु वणिजा तस्यामेव सभायां स्थितेनाष्टोत्तरशतं आबूनां मुक्तम् । वीरमेण तस्योपरि कृपाणिका कृष्टा । रे अस्मत्तः किमधिकं करोषीति वदन्नसौ वणिजं हन्तुमन्वधावत् । वणिग् नष्ट्वा वीरधवलाध्यासितां सभामाविशत् । जातः कलकलः । ज्ञातं पारम्पर्य वीरधवलेन । वणिजि पश्यति वीरम आकार्य हक्कितः--- का ते चर्चा यद्ययं त्वदधिकं २० करोति ? । अस्माकं न्यायं न वेत्सि ? । दूरे भव, पुनर्मदृष्टौ नागन्तव्यम् । वणिजो मम जङ्गमः कोशः । मयि जीवति सति केनाभिभूयन्ते ? । इत्युक्त्वा तं वीरमग्रामा'ख्ये आसन्नग्रामेऽतिष्ठिपत् । स तु कोणिककुमारवत् कंसवत् पितरि द्विष्टो जीवन्मृतंमन्योऽस्थात् । वीसलस्तु राणश्रीवीरधवलस्य वल्लभः २५ श्रीवस्तुपालस्य च । १ ग-पुस्तके 'गृहलीकृष्णा' एतदारभ्य 'प्रक्षेपयिष्यति' एतावत् पाठाधिक्यम् । २ क- रेषाः' । ३ ग-'तत्र स्थितेनाष्टोत्तरशतं दुष्कता मुक्ता'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy