SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०४ चतुर्विशतिप्रबन्धे [२३ श्रीआभड. दास्यै कण्ठाभरणम् । स्थालं मौक्तिकैर्वपितम् । दासी हृष्टा उपराजं वबाज । भोजनादनु आभडः पुत्र्या जगदे-तात ! निष्कासितभाण्डागारिकप्रेरितनृपकर्तव्यमेतत् । मया दास्यै रीढा न कृता । यास्यति श्रीः, परं उपायं कुरु । सर्व स्वधन टिप्पयित्वा राज्ञे दर्शय कथय च-गृहाण स्वामिन् ! यदि ते रुचिरस्ति । तथैव चक्रे सः । नृपो विस्मितो लजितो हृष्टश्च । भाण्डागारिकं तटे धृत्वा राजोचेरे मूढ ! यस्मै विधिव्यं दत्ते तस्मै तद्रक्षोपायबुद्धिमपि दत्ते । ततो मात्र वृथा मत्सरी स्याः । पुनरेव आभडपादयोर्लगितः सः । तृणमपि तत्सत्कं राज्ञा न गृहीतमेव । एवं धनी अखण्डभाग्यः १० चिरायुः नीरुक् आभडः मरणावसरे पुत्रोपकाराय स्वसदने चतुष्कोण्यां निधिचतुष्कं न्यास्थत् । मृतः स्वयं समाधिना । चाम्पलाऽपि द्यां गता । पुत्रैर्बाह्ये धने गते सति ते निधयः सम्भालिताः, परं न लभ्यन्ते । अञ्जनं च दापितम् । अञ्जनी भणति केऽपि श्यामाङ्गा मुद्गरपाणयोऽधोऽधो वनं नयन्ति । किं मुधा १५ क्लिश्यध्वे ? । जाता निराशाः सामान्यवणिजोऽभवन् । तस्मात् पुरुषाणां पुण्योदय एव धनवृद्धिनिबन्धनं, न कुलम् । ॥ इत्याभडप्रबन्धः ॥ २३ ॥ ग-चाम्पलदेव्यपि'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy