SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पट्टावली - समुच्चयः -त्रयकालना ५- साधुसाध्वीनां निर्विकृतिकप्रत्याख्याने निर्वृकृतिकग्रहण, नीताऽशनादिभोगानुजा, ७-प्रत्यहं द्विविधप्रत्याख्यानं, ८-गृहस्थावर्जननिमित्तं प्रतिक्रमणकारणानुज्ञा, ६-संविभागदिने तद्गृहे गीतार्थेन गंतव्यं, १० - लेपसंनिष्प्रभावः, ११ - तत्कालेनोष्णोदकग्रहणं, इत्यादिना क्रियाशैथिल्यरुचीन् कतिचिन् मुनीन् स्वायत्तीकृत्य सदोपत्वात् श्रीजगच्चंद्रसूरिभिः परित्यक्ताया- 5 मपि विशालायां पौधशालायां लोकाग्रहात् द्वादशवर्षाणि स्थितवंतः । प्रत्रज्यादिककृत्यमि गुर्वाज्ञामंऽतरेणैव कृतवंतश्च ॥ श्रीविजयचंद्रसूरिव्यतिकरस्त्वेवं- ५५ I मंत्रिवस्तुपालगृहे विजयचंद्राख्यो लेख्यकर्मकृत् मंग्याऽऽसीत् ॥ क्वचनापराधे कारागारे प्रक्षिप्तः । श्रीदेवभद्रोपाध्यायैः प्रव्रज्याग्रहणप्रतिज्ञया 10 विमोच्य प्रत्राजितः । स च सप्रज्ञो बहुश्रुतीभूतो मंत्रिवस्तुपालेन नाऽयं साभिमानी सूरिपदयोग्य इत्येवं वार्यमाणैरपि श्रीजगच्चंद्रसूरिभिः श्रीदेवभद्रोपाध्यायानुराधात् श्रीदेवेंद्रसूरीणां सहायो भविष्यतीति विचिंत्य च सूरीकृतः ॥ बहुकालं च श्रीदेवेंद्रसूरिषु विनयवानेवासीत् । 15 मालवदेशात्समागतानां श्रीदेवेंद्रसूरीणां तदा वंदनार्थमपि नाऽऽयातः गुरुभिर्ज्ञापितं कथमेकस्यां वसतौ द्वादशवर्षाणि स्थितमिति श्रुत्वा “निर्मम निरहंकारा " इत्यादि प्रत्युत्तरं प्रेषितवान् ॥ संविज्ञास्तु न तं प्रत्याश्रिताः । श्रीदेवेंद्रसूरियस्तु पूर्वमनेकसंविज्ञसाधुपरिकरिता 'उपाश्रय' एव स्थितवंतः ॥ लोकैश्च वृद्धशालायां स्थितत्वात् श्रीविजयचंद्रसमुदायस्य " वृद्धशालिक " इत्युक्तं । तद्वशात् श्रीदेवेंद्रसूरिनिश्रितसमुदायस्य " लघुशालिक" इति ख्यातिः॥ 20 स्तंभतीर्थे च चतुष्पथस्थितकुमार पालविहारे धर्मदेशनायामष्टादशशत १८०० मुखवत्रिकाभिर्मंत्रिवस्तुपालः चतुर्वेदादिनिर्णयदातृत्वेन स्वसमयपरस. मयविदां श्रोदेवेंद्रसूरीणां वंदनकदानेन बहुमानं चकार ।। श्रीगुरवस्तु विजयचंद्रमुपेक्ष्य विहरमाणाः क्रमेण पाल्हणपुरे समायाताः । तत्र चानेकजनतान्विताः शीकरीयुक्तसुखासनगामिनश्चतुरशीतिरिभ्या धर्मश्रोतारः । प्रल्हादनविहारे च25 प्रत्यहं मूटकप्रमाणा अक्षता:, क्रयविक्रयादौ नियतांशग्रहणात् ॥ षोडशमण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy