SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २८ पट्टायली-समुचयः सत्पट्टोदयभूधरे शशिरवी वागीश्वरीमन्दिरे __ सेनान्यौ वृषभूपतेः शमरमाकर्णावतंसामुषौ । श्रीदेवेन्द्रमुनीश्वरोऽमलमना आद्यो द्वितीयः पुनः सुरीशो विजयेन्दुरुत्तमगुणः सेव्यावभूतां सताम् ॥२६॥ 5 श्रीदेवेन्द्रगुरोः शिष्यौ तमस्तोमैकभेदकौ । महाप्रभावजायेतां जम्बूद्वीपरवी इव ॥३०॥ विद्यानन्दमुनीन्दुरादिम इह प्रह्लादने पत्तने यस्याचार्यपदेऽमुचन् दिविषदो गन्धोदकं मण्डपात् । दुष्टस्त्रीदमनः सुशावरचनः श्रीधर्मघोषः पुनः - 10 पाथोधिप्रकटीकृताद्भुतमणिः श्रीगोमुखोद्बोधकृत् ॥३१॥ तदाचयोगी कश्चन शिष्यवृन्दकलितोऽवन्त्यां स्थितोगर्वY मानासिद्धिबहुप्रसिद्धिहृतहृद्भपप्रजाऽभ्यर्चितः । तत्र स्थातुमयं न जैनयतिनां दत्ते कदाऽपि कचि 15 च्चेदागच्छति कोऽपि साधुरिह यस्तै प्रत्यसौ मत्सरात् ॥३२॥ आसन्नोऽप्यथ दूरगोऽपि सहसा सौवप्रभावोधुरो हुकारात्तृणतन्तुधूलिकणिकाक्षेपात्तथा स्वाकृतः । मार्जारान्नकुलोन्दुराहिसरटान् गोधावृकान् वृश्चिकान् फेरण्डप्रभृतींश्च मुश्चतितमा लक्षादिसङ्ख्याच क्षणात् ॥३३॥ 20 ॥ युग्मम् ॥ भन्याश्चापि विभीषिकाः प्रकटयत्युच्चैः स नानाविधा स्तद् दृष्ट्वा भयविप्लुतॉश्छलयति तुल्लान् स पापः क्षणात् । साधुः कोऽपि न तत्र तिष्ठति ततः श्रीधर्मधोषोऽन्यदा रिस्ता समीयिवान् बहुपरीवारो विहारक्रमात् ॥३४॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy