SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५३ श्रोपट्टावलीसारोद्धारः प्रधानचरितैश्च "वृहद्गच्छ” इत्यपि नाम । अवांतरे विमलमंत्री श्रीअबूंदाचलोपरितीर्थप्रासादकृदभूत् ॥३५॥ ( ३६ ) श्रीउद्योतनसूरिपट्टे षट्त्रिंशत्तमः श्रीसर्वदेवसूरिः॥ तथा श्रीविक्रमात् एकोनत्रिंशदधिकदशशतवर्षे धनपालपंडितेन देशीनाममाला कृता । विक्रमात् पएणनवत्यधिकसहस्रवर्षे श्रीउत्तराध्यय- 5 नवृत्तिकर्ता थिरापद्रगच्छीयवादिवेतालशांतिसूरिः स्वर्गभाग ॥३६॥ (३७) श्रीसर्वदेवसूरिपट्टे सप्तत्रिंशत्तमः श्रीदेवसूरिः ॥३७॥ (३८) श्रीदेवसूरिपट्टे ऽष्टत्रिंशत्तमः पुनः श्रीसर्वदेवसूरिः ॥३८॥ . (३६) श्रीसर्वदेवसूरिपट्टे एकोनचत्वारिंशत्तमौ श्रीयशोभद्रसूरिः श्रीनेमिचंद्रसूरिः ।। तथा विक्रमात् पंचत्रिंशदधिकैकादशशतवर्षे नवांगवृत्ति- 10 कृत् "श्रीअभयदेवसूरिः” स्वर्गभाग ३६ । (४० ) श्रीयशोभद्रसूरिश्रीनेमिदंदसूरिपट्टे चत्वारिंशत्तमः श्रीमुनिचंद्रसूरिः ।। स च जावज्जीवं सौवीरपायी प्रत्याख्यातसर्पविकृतिकः श्रीअनेकांतजयपताकापंजिकोपदेशपदवृत्यादिकर्ता, तार्किकशिरोमणिः संवत् ११७८ वर्षे स्वर्गभाग् ॥ 15 अत्र च संवत् ११५६ वर्षे पौर्णमियकमतोत्पत्तिः तत्प्रतिबोधाय च श्रीमुनिचंद्रसूरिभिः पाक्षिकसप्ततिः कृता ।। तथा श्रीमुनिचंद्रसूरिशिष्यः श्रीवादिदेवसूरिस्तैः श्रीमदणहिलपूरपत्तने श्रीसिद्धराजजयसिंहसभायां वादे कुमुदचंद्राचार्य निर्जित्य श्रीपत्तननगरे दिगंबरप्रवेशो निवारितः तथा सं० १२०४ वर्षे फलवर्द्धिप्रामे 20 चैत्यबिंबयोः प्रतिष्ठा कृता, तथा पारासणे च श्रीनेमिनाथप्रतिष्ठाकृता, तथा ८४००० प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणपंथः कृतः, स च वादिदेवसूरिः सं० १२२६ वर्षे स्वर्गभाग। .. तस्मिन्समये श्रीदेवचंद्रसूरिशिष्यः त्रिकोटिग्रंथकर्ता श्रीहेमचंद्रसूरिः तस्य च सं. ११४५ वर्षे जन्म सं०११५०वर्षे व्रतं सं० ११६६वर्षे 25 सरिपदं सं०१२२५वर्षे स्वर्गगतिः ॥४०॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy