________________
~
~
प्रस्तावना। मितानि स्तोत्राणि विरचयेयुरिमे ' तपोमतकुट्टनम् ' नाम गच्छकदाग्रहप्रकाशकं ग्रन्थमिति महच्चित्रम् । । ... श्रीमल्लिषेणमूरिभिः १२१४ शाकाब्दे विरचितायां स्याद्वादमञ्जरीवृत्तौ साहाय्यकृतोऽमी, उक्तं च तत्रैव
" श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ॥ ३॥"
श्रीजिनसेनशिष्योभयभाषाकविशेखरश्रीमल्लिषेणसरिविरचिते भैरवपद्मावती कल्पेऽप्यस्यैव साहाय्यम् ।
(३१) देवेन्द्रसूरिः। एतन्नामधेयधारिणो भिन्नभिन्नगच्छेष्वनेके समजायन्त सूरिपुरन्दरास्तथाप्यत्रैव पृ. ५४ मुद्रिते त्रिंशचतुर्विंशतिकास्तवनदशके प्रत्येकस्तवान्ते 'श्रीसङ्घतिलकश्रियम् ' इति पदावलोकनेन सम्यक्त्वसप्ततिकावृति (तत्त्वकौमुदी) विरयितू रुद्रपल्लीयगच्छतिलकायमानस्य श्रीसङ्गतिलकाचार्यस्य शिष्यपुङ्गवोऽयमिति निश्चयः । . गुरुपर्वक्रमस्त्वस्य प्रश्नोत्तररत्नमालावृत्ति-सम्यक्त्वसप्ततिकावृत्तिशीलोपदेशमालावृत्ति (शीलतरङ्गिणी) प्रशस्तिपद्यैः सम्यगवबुध्यते, स च वाचकानां सौलभ्याय दीयतेऽत्र वृक्षरूपेण. १ 'तपोमतकुटनं जिनप्रभस्य कृतिरित्यर्थं नास्ति संदेहः, परं तत्र . दर्शितेन स्वस्य सिद्धान्ताऽनभिज्ञत्वेन बालसुलभेन अभिनिवेशेन द्वेषपोषण च ज्ञायते यदुतायं ग्रन्थः कर्ता स्वस्य प्रथमे वयसि निमर्तिः स्यात् , तपागच्छीयैः सह मैत्री च पश्चिमे वयसि। इति श्रीकल्याणविजयमुनिवराः।