________________
प्रस्तावना
(६१)
नाम्ना गृहीतवानसौ दीक्षाम् , विक्रमीयत्रयोविंशत्यधिकत्रयोदशशततमेऽब्दे (१३२०) उपाध्यायपदम्, अष्टाविंशत्यधिकत्रयोदशशत (१३२८ ) तमे संवत्सरे व्यभूषयत् सूरिपदम्, विक्रमीयसप्तपञ्चाशदुत्तरत्रयोदशशत ( १३५७ ) तमे हायने च दिवं जगामेति पट्टावल्याबुल्लेखदर्शनाद् द्वयुत्तरे त्रयोदशशत (१३०२) वर्षतोऽनन्तरं सप्तविंशत्यधिक त्रयोदशततमाब्दतश्चार्वाक् मध्यवर्ती श्रीमतः सत्तासमयः सुनिश्चित एव ॥
(२५) श्री सोमप्रभमूरिः। तपागच्छीयसप्तचत्वारिंशत्तमपट्टविभूषकः श्रीधर्मघोषसूरिशिष्यशिरोवतंसः सूरिवरोऽयम् ।
वि.सं.१३१० वर्षे जन्म,सं.१३२१ वर्षे दीक्षा, सं.१३३२ वर्षे सूरिपदम् , सं. १३७३ वर्षे स्वर्गारोहणमस्य । ____ अप्कायविराधना भयेन कोंकणदेशे, शुद्धजलदोर्लभ्येन मरुदेशे च साधूनां विहारकरणं निषेधयामासासौ।।
कृतयोऽस्य-यतिजीतकल्पसूत्रम् , 'यत्राखिल' स्तुतयः, 'जिनेन येन' स्तुतयः, 'श्रीमच्छर्म' स्तोत्रम् ।
सं. १३५७ स्वगुरुश्रीधर्मघोषसूरिस्वर्गवासदिवस एव स्वस्याल्पमायुर्विज्ञाय न्यवीविशद् विमलप्रभं सूरिपदेऽसौ ।
शतार्थकाव्य-कुमारपालप्रतिबोध, सुमतिनाथचरित्र, सूक्तावल. (सिन्दूरप्रकर० ) प्रणेता श्रीसोमप्रभाचार्यस्त्वितो भिन्नः, श्रीविजयसिंहाचार्यशिष्यत्वात् ।