SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम् ] श्रीस्तम्भनपार्श्वनाथस्तवनम् । जय शून्यशशिप्रतिमाप्तिहरे ! जय भीमभवाम्बुधिपारहरे !। जय लोभसमीरणपानहरे ! जय बालपलाशफलाशहरे ! ॥ ७ ॥ प्रशमरससमुद्रः कीर्तिभारैरमुद्रः कुमतितिमिरचन्द्रः साधुसिद्धावतन्द्रः । सुगतिनगरपन्था दुःखदौर्भाग्यमन्था घनभवदवपाथः पातु वः पार्श्वनाथः ॥ ८॥ इत्थं स्तम्भनमण्डन ! खण्डन ! कमठोपसर्गवर्गस्य । नयचन्द्रमूरिसंस्तुत ! मार्ग ! स्वर्गापवर्गस्य ॥ ९ ॥ इति श्रीऋषिबाणाक्षिविधौ (१२५७) संवत्सरे मुदा। वादिश्रीदेवसरीणां गच्छे विरचितः स्तवः ॥ १०॥ छ परिशिष्टम् श्रीधर्मघोषमूरिविरचितः श्रीपार्श्वनाथमालामन्त्रस्तवः । वरमन्त्र (धर्म) कीर्तितविद्यानन्दत्यपीह यन्नाम । तं नौमि नम्रपाच पाच देवेन्द्रनुतपार्श्वम् ॥ १ ॥ ॐमिति नमो भगवते पार्श्वतीर्थङ्कराय भवताते । धरणेन्द्रयुजा पद्मावत्या सहिताय चैह्येहि ॥ २ ॥ यक्षं सयक्षणीकं राक्षसमनु राक्षसी तथा भूतम् । भूती पिशाचमत्र पिशाची कुष्माण्डकुष्माण्डयौ ॥ ३ ॥ नागं नागी ज्वरकं ज्वरीमपस्मारमप्यपस्मारीम् । प्रेतं च प्रेती ब्रह्मराक्षसं ब्रह्मराक्षसिकाम् ॥ ४ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy