SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] (२०३) श्रीपार्श्वजिनस्तवनम् [ ८२] श्रीधर्मसरिप्रणीतं श्रीपार्श्वजिनस्तवनम् । कस्तूरीतिलकं भुवः परिभवत्राणैककल्पद्रुमः __ श्रेयःकन्दनवाम्बुदस्त्रिजगतीवैडूर्यरत्नाङ्गदः । विघ्नाम्भोजमतङ्गजः कुवलयोत्तंसः स्ववंशश्रिया नेत्राणाममृताञ्जनं विजयते श्रीपार्श्वनाथः प्रभुः ॥ १॥ उत्सर्पन्नयमङ्गलैकनिलय ! त्रैलोक्यदत्ताभय ! प्रध्वस्तामय ! विश्वविश्रुतदय ! स्याद्वादविद्यालय !। उद्दामातिशय ! प्रसिद्धसमय ! प्रक्षीणकर्मोच्चय ! प्रोन्मुक्तस्मय ! भव्यकैरववनीचन्द्रोदय ! त्वं जय ॥२॥ ये मूर्ति तव पश्यतः शुभमयीं ते लोचने लोचने ___या ते वक्ति गुणावली निरुपमा सा भारती भारती । या ते न्यश्चति पादयोर्वरदयोः सा कन्धरा कन्धरा ___ यत्ते ध्यायति नाथ ! वृत्तमनघं तन्मानसं मानसम् ॥ ३ ॥ किं स्नात्रैरलमङ्गरागविधिभिः कार्य किमभ्यर्चनैः पर्याप्त स्तुतिभिः कृतं प्रणतिभिः पूर्ण कलोद्गीतिभिः । वक्त्रेन्दौ तव चेच्चकोरयुवतिप्रीतिं दृशोर्बिभ्रति स्वान्तं चेत्तव पादपङ्कजयुगे धत्तेऽलिलीलायितम् ॥ ४ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy