SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीपल्लीपालवंशोधनपालविरचितः प्र० विस्मयेनाथ भूनाथश्चक्षुस्तमनु 'व्यक्षिपत् । वामतो देवताऽऽसन्नं सहसा दत्तदर्शनम् ॥६८॥ अत्युच्चकृशकृष्णाङ्गं पादनद्धास्थिनूपुरम् । तालदीर्घचलज्जा क्षीणमांसोरुमण्डलम् ॥६९॥ नागतालदृढानद्धशार्दूलाजिनवाससम् । करालोदरपातालं लक्षपार्श्वकवक्षसम् ॥७०॥ वामे कपाल बिभ्राणं कत्तिकामपरे करे । जिह्वास्पृष्टोष्ठेपर्यन्तं दंष्ट्राक्रकचदारुणम् ।।७१॥ घोरनासापुटं रक्तनेत्रं पिङ्गलमूर्द्धजम् । आजानुविलसन्मुण्डमालं घेतालमैक्षत ॥७२॥ तं चादृष्टचरं दृष्ट्वा सधैर्यमवदन्नृपः । कि हस्यते महासत्त्व ! वदैतदसमञ्जसम् ॥७३॥ सोऽप्याख्यन्न किमप्यन्यत् तवैवाराधनाविधिः । मामतिक्रम्य यद् देवी प्रसादयितुमिच्छसि ॥७४॥ अहं हि सततासेवी देव्याः परिजनाभ्रेणीः । मयि तृप्तीकृते मुग्ध ! सिध्यतीह समीहितम् ॥७५॥ वदति स्म नृपः स्मित्वा युक्तमाह भवानिदम् । तवैवाय प्रमादो यन्न ममादौ निवेदितम् ।।७६॥ अपर्याप्तेऽधुना कल्पे विवक्षितफलार्थिना । नार्चनीयो मया कश्चिदिति मे व्रतनिश्चयः ॥७७॥ क्षामकुक्षे बुभुक्षा चेत् तदेतं देवताबलिम् । कोणे स्थित्वा हरेत्युक्तो वेतालः पुनरालपत् ॥७८॥ आस्तामयं वयं येन मांसाहाराः क्षेपाचराः । त्वया हि तावदुद्दामसंग्रामा बहवः कृताः ॥७९॥ हताश्च भूभृतो नैके" तदेकं पूर्णलक्षणम् । कपालकैपरं ताततर्पणाय ममार्पय ॥८॥ १ वि। २ । ल। ३ ल। ४ ष्ट। ५ शा। ६ । ७ तत । ८ य। ९ दे। १० क्षि। ११ ने। १२ प। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy