SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [ तुम्बनिरूपणम् www. द्ध्युपनिबन्धनसम्प्रतिष्ठितार्थत्वादिति हेतु:, - समीचीना सम्प्रसिद्धिः सम्यक्सम्प्रसिद्धिः, -सामान्यविशेषविकल्पान्योऽन्याजहद्वृत्त्या वस्तुतत्त्वनिष्पत्तिः, सम्यक्सम्प्रसिद्धेः उपनिबन्धनं - प्रत्यक्षानुमानागमलोकप्रसिद्धसंव्यवहाराविरोधनं तेनोपनिबन्धनेन सम्प्रतिष्ठितोऽर्थो यस्य तदिदं जिनशासनं सम्यक्संप्रसिद्ध्युपनिबन्धनसम्प्रतिष्ठितार्थं तद्भावादेकान्तसत्यमेव तत्, दृष्टान्तः सदसदर्थेत्यादि, संश्चाश्चार्थोऽभिवेयो यस्य घट5 भवत्यादेः पदस्य, सङ्गृहीतानेकभेदा [त्मकत्वादने] कान्तात्मकः तेन सहाव्यभिचारिणां प्रत्यक्षानुमानादिप्रमाणानां प्रबन्धेनाव्यवच्छिन्न प्रमाणप्रमेयसम्बन्धार्थाभिधानप्रत्यययाथात्म्येन संसिद्धा नयचक्रशास्त्राभिहिता बहुभेदा: - घटादिनामपदाभिधेया भवत्यादिक्रियापदाभिधेयाश्चार्थाः सांसिद्धिकनिदर्शनाः सिद्धादेशनैमित्तिकवाक्यवत् सदाद्यनेकान्तार्थविषयत्वात् सत्यत्वप्रमाणत्वाव्यभिचारीति भावितमेव, व्याख्यातप्रकारसम्यक्सम्प्रसिद्ध्युपनिबन्धनसम्प्रतिष्ठितार्थत्वादिति, एवं स्वपक्षसंसिद्धिसाधनाभिधानवर्त्म प्रदर्शनं 10 शास्त्रार्थोपसंहारात्मकं कृतम् । wwwwwww www परपक्षविक्षेपक्षमसाधनाभिधानदिक् प्रदर्शनमपि शास्त्रार्थोपसंहारात्मकं क्रियते एतदन्यतरैकान्तशास्त्रप्रबन्धस्तु विघटितार्थः, प्रस्तुतवस्तुविच्छेदपरमार्थत्वात्, दश दाडिमानीत्यादिवाक्यवत् । ११९४ www निबन्धनसम्प्रतिष्ठितार्थत्वादिति प्रयोगः । हेत्वर्थमाह- समीचीनेति, सामान्यविशेषविकल्पानां परस्परापरित्यागवृत्त्या वस्तु15 तत्त्वभवनस्य प्रत्यक्षानुमानागमलोकप्रसिद्धव्यवहाराविरोधेन यस्मिन् शासने ग्रन्थघटकतया सम्प्रतिष्ठितत्वमस्ति तथाविधं जैनशासनं सम्यक्सम्प्रसिद्ध्युपनिबन्धनसम्प्रतिष्ठितार्थम्, प्रमाणाद्यविरोधेन सविकल्पयोः सामान्यविशेषयोः परस्परापरित्यागेन जैनशासने प्रतिपादितत्वेन वस्तुनोऽत्रैव सम्प्रतिष्ठा वर्त्तते, नान्यशासनेषु तेषु क्वचित् सामान्यस्यैव क्वचिद्विशेषस्यैव क्वचित्प्राधान्येनोभयोः क्वच्चिच्च प्रमाणप्रसिद्ध्यादिविरोधेन प्रतिपादनादसम्प्रतिष्ठितार्थाः तस्मात्तानि सत्यार्थानि न भवन्ति, किन्तु जैनशासनमेव एकान्तेन सत्यमिति भावः। दृष्टान्तमाह - सदसदर्थेत्यादीति, घटः भवतीत्यादिपदस्य सङ्गृहीतानेकमेदात्मकोऽनेकान्तात्मकः 20 सदर्थोऽसदर्थश्चाभिधेयः, प्रमाणान्यपि तथाविधपदेन सहाव्यभिचरितानि, अर्थाभिधानप्रत्ययौ च सदसदर्थपदाव्यभिचारिप्रमाणप्रबन्धेनापरित्यक्तप्रमाणप्रमेयसम्बन्धी, अत एव यथास्वरूपौ यथाविधप्रमाणप्रबन्धेन नयचकशास्त्राभिहिता बहुमेदा अर्था:घटादिनामपदाभिधेयाः भवत्यादिक्रियापदाभिधेयाश्च संसिद्धास्तथाविधार्थवत्सिद्धादेशनैमित्तिकस्य सकलाभिधानज्योतिष्कस्य वाक्यत्रदित्यर्थः, अनेकान्तात्मकसदसदार्थाभिधायि पदाव्यभिचारिप्रमाणानि नयचक्रशास्त्रोदितानेकप्रमेदार्थविषयाणि सिद्धान्येव, तथाविधसिद्धार्थनिबन्धनसिद्धा देशनैमित्तिकवाक्यं सत्यत्वप्रमाणत्वाव्यभिचार्येव, तद्वज्जैनशासनमिति भावः । तेन सहेति, सद25 सदर्थाभिधायिपदेन सहाव्यभिचारि प्रमाणानि - यस्मिन् वाक्ये प्रमाणभूते ईदृशपदानि वर्त्तन्ते, तेषां प्रमाणानां प्रबन्धः वाच्यवाचकसम्बन्धाव्यवच्छेदः, तथाविधाव्यवच्छिन्नसम्बन्धवदर्थस्याभिधायकं पदं तथाविधार्थविषयं वा विज्ञानं याथात्म्यं भवत्येव, एवञ्च सदसदर्थपदाव्यभिचारिप्रमाण प्रबन्धेन - वाक्यप्रबन्धेन बहुमेदा अर्थाः संसिद्धा एव, तथाविध सांसिद्धिकार्योपदर्शक सिद्धादेशनैमित्तिकस्य वाक्यं सत्यार्थ प्रमाणमेवेति भावः । दृष्टान्ते साध्यसाधने घटयति- सदाद्यनेकान्तेति, तथाविधं वाक्यं सदाद्यनेकान्तविषयमत एव सत्यत्वप्रमाणत्वाभ्यामव्यभिचारि, सम्यक् सम्प्रसिद्ध्युपनिबन्धनसम्प्रतिष्ठितार्थत्वादेवं जिनशासनमपीति भावः। तदेवं जैनसत्यःवपक्ष संसिद्धे येत्साधनमार्गस्योपदर्शनं नयचकशास्त्रार्थस्योपसंहाररूपं नयचक्रशास्त्रस्य जैनशासनस त्यत्वप्रति30 पादन प्रयोजनकत्वात्तत्कृतमित्याह - एवमिति । जैनादन्यच्छासनस्यानृतत्वप्रतिपादनस्यापि शास्त्रार्थत्वात् तत्साधनाभिधानमपि दिशा विदधातीत्याह- परपक्षेति । द्रव्यार्थपर्यायार्थान्यतरैकान्तशास्त्रस्य प्रबन्धो विघटितार्थ इत्याह-एतदन्यतरेति । विध्यादिद्वा १ सि.क्ष. छा. डे. वाक्यार्थवत् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy