SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ स्याद्वादेनैव दृष्टान्तान्तराणि ] द्वादशारनयचक्रम् १११५ www.www. मा कार्षीः । किं तर्हि ? विध्यादिभङ्गान्तःपातिनः सर्वेऽन्येऽपि वस्तुवाद्युद्वाहास्त्वदुद्राहेण तुल्या आर्हततामेवानुपतन्ति, वस्तूङ्ग्राहस्यानेकान्तत्वापत्तेः, तंच्च तेषां पूर्वाभ्युपगमे विरोधा [द्] व्यसनं प्रेक्ष्यात्मन आश्वा सकरमिति तद्व्यसनदर्शनादात्माश्वासकरमिति तद्व्यसनदर्शनादात्माश्वासनं कुरु धृतिं भावय । www अनन्तरातीतनयदर्शनं तावद्भावयामः तद्यथा न्यानन्यत्वप्रकल्पना । येप्याहुः राशिवदिति, एष श्लोकः स्याद्वाद एव नैकान्तार्थत्वात् 'शक्त्यन्तरत्वतादात्म्या- 5 ||' इति शक्त्यन्तरं नरादिषु प्रत्येकमसत् सेनायां समुदितनरादिचतुरङ्गायां दृष्टं तदात्मना सेना तु प्रत्येकमिति तयोः समुदायि समुदाययोरेकत्वनानात्वे वादिनाऽङ्गीकृते द्रव्यार्थपर्यायार्थानुपातः कृतो भवति, नरादिसामान्यतादात्म्येऽपि च सेनाऽन्यापि, तत्समुदायमात्रत्वात् तदात्मत्वात् भवनसामान्यस्य रूपरसार्थान्तरत्ववत्, तस्मादेव प्रागेष न्यायस्तद्यथा 'नृरथाश्व.... ..।' इति । 10 याहु: शिवदित्यादि, एष श्लोकः स्याद्वाद एव, नैकान्तार्थत्वात्, तद्व्याख्याश्लोकमाह'शक्त्यन्तरत्वतादात्म्ये'त्यादि सेनायां भाविते सर्वदृष्टान्तेषु राशिसार्थादिष्वपि भावितमेव भविष्यतीति लाघवार्थं, शक्त्यन्तरं नरादिषु प्रत्येकमसत् सेनायां समुदितनरादिचतुरङ्गायां दृष्टं प्रबलरिपुविजयनम्, तदात्मना सेना तु प्रत्येकं, तान्येव हि नराद्यङ्गानि सेनेति, तेनैव तयोर्नरादिसेनाख्यवस्तुनोः समुदायि समुदाययोरङ्गाङ्गिनोरेकत्वनानात्वे वादिनोद्ग्राहयताऽङ्गीकृते, तदङ्गीकरणात् द्रव्यार्थपर्यायार्थानुपात : - उभयनयात्मक - 15 www.www wwwwww .................. Jain Education International 2010_04 सर्वेषां विध्यादिभङ्गान्तःपतितानामपि वस्तुवादानामार्हतत्वमापतत्येवेत्याह-विध्यादीति । हेतुमाह - वस्तूङ्ग्राहस्येति, यदि वस्त्वभ्युपगम्यते केनापि तदा तद्वादस्यानेकान्तत्वमापद्यत एवेति भावः । एवञ्चानेकान्तत्वमात्मन आश्वासकारि, अन्यवादाश्व दोषभूयिष्ठत्वाद्व्यसनरूपा इति विचार्य शोकं मा कुर्वित्याह- तच्चेति आर्हतत्वञ्चेत्यर्थः । ननु विध्यादिभङ्गान्तः पातिवस्तुवादाना. मार्हतत्वमापद्यते, तत्कथमिति प्रतिपादनीयम्, वचनमात्रात्तथात्वानापत्तेः, तत्राव्यवहितपूर्वनयस्यार्हतत्वापादनस्य कृतत्वादनन्तरादेकादशादतीतं दशमनयदर्शनमेव तावत्प्रथममार्हतत्वेन भावयाम इत्याशयेनाह - येऽप्याहुरिति । पूर्वपक्षव्यावर्णनपरं 20 श्लोकमाह-राशिवदित्यादीति, नायं श्लोकोऽस्माभिर्लब्धा पञ्चस्कन्धातिरिक्तस्यात्मनो नास्तित्वे संवृत्त्या समुदाय एव स प्रज्ञाप्यते तत्सन्ताने वेति साधनाय दृष्टान्तत्वेनोपन्यस्ता राश्यादयः, समुदाया सत्त्वप्रतिपादनार्थाः, रूपादिमात्र वस्तुत्वप्रतिपादनाः, तदर्थस्य दृढीकरणार्थञ्च दृष्टान्तबाहुल्यं तन्नयेन प्रतिपादितमिति बोध्यम् । एतच्छ्रुोकप्रतिपादितोऽर्थः स्याद्वाद एव, अनेकान्तार्थत्वाद प्रतिवाद्याह-एष श्लोक इति । कथं स्याद्वाद इत्यत्र श्लोकेन तत्प्रकारं दर्शयति-तड्याख्याश्लोकमिति । शक्त्यन्तरत्वेति, अयमपि श्लोको न पूर्ण उपलब्धः । शक्त्यन्तरत्वतादात्म्यान्यानन्यत्वप्रकल्पना । अनेकान्तार्थरूपत्वात् स्याद्वादम - 25 नुगच्छति ॥ इति कारिका सम्भाव्यते । अनेके दृष्टान्ताः पूर्वपक्षिणोक्ताः तत्र सेनादृष्टान्ते स्याद्वादे भाविते सर्वदृष्टान्तेषु राशिसार्थादिषु स भावितो भवतीत्याह - सेनायां भावित इति, सेनायां स्याद्वादे भाविते इत्यर्थः । 'हस्त्यश्वरथपादातं सेना स्याच्चतुष्टयम्', तत्र प्रत्येकं हस्त्यादौ भिन्ना शक्तिः, समुदितायां सेनायान्तु शक्त्यन्तरत्वमस्ति तच्च प्रबलरिपुविजयनरूपम्, तत्तु प्रत्येकं नरादौ नास्ति, सेना तु तत्स्वरूपभूता, प्रत्येकं नराद्येव हि सेनेत्युच्यत इत्याह- शक्त्यन्तरमिति, अन्या शक्तिः शक्त्यन्तरम् । ततः किमित्यत्राह - तेनैवेति, अस्य वादिनेत्यनेन सम्बन्धः, तयोः नरादिसेनयोः शक्त्यन्तरत्वान्नानात्वं तदात्म- 30 त्वाच्चैकत्वं वादिनाऽङ्गीकृतमिति भावः । भवतु तेनापि किमित्यत्राह - तदङ्गीकरणादिति, उक्तरीत्याऽङ्गाङ्गिनोरेकत्वनानात्वाभ्युपगमाद्द्रव्यार्थ पर्यायार्थानुपातः कृतो भवति, एकत्वाङ्गीकाराद्रव्यार्थानुपातः, नानात्वाङ्गीकाराच्च पर्यायार्थानुपातः, अयञ्चो १ सि. क्ष. डे. छ. स च० । २ सि. क्ष. डे, छा. पेख्यसनमाश्वास० । ३ सि. क्ष. छा. डे, भावितेषु । ........... For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy