SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १०६६ न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे - ननु घटादाविति, यावत् सत्त्वमित्यनैकान्तिकोद्भावनम् , अन]वस्थितैकस्वरूपघटादिसद्भावादित्यत्रोच्यते, न, समुदायत्वात्-नानैकान्तिकत्वमस्य हेतोः समुदायत्वाद्धटस्य शकटादिवदेव साध्यत्वात् घटशब्दस्यानैकान्तिकाभासतेत्यर्थः, रूपरूपादिस्थितैकरूपत्वेऽपि सत्त्वमिति चेत्-शुक्लनीलादिरूपेषु रूपसामान्यसत्त्वमनवस्थितैकरूपश्च दृष्टं तस्मादनैकान्तिकत्वमिति चेत्, न, रूपसामान्यसमुदायसाध्यत्वात् , 5 शुक्लादिविविक्तरूपव्यतिरिक्तसामान्यरूपस्य समुदायाख्यस्य सत्त्वासिद्धेरवस्तुत्वाद्विपक्षासिद्धेर्नानैकान्तिकता। अधुना वस्तुतत्त्वं निरूपयति प्रत्येकं वृत्ता रूपादिव्यक्ति दरूपैव, सा चानवस्थितैकरूपेत्येतन्मात्रसत्यमेव वस्तु, तस्य त्वभिवचनमात्रं घट इति परिकल्पनामात्रार्थत्वाच्छब्दस्य, संसारानुबन्धवत्, परमार्थतस्तु पश्चात् पूर्वञ्च भावाद्यथा रथस्यात्मा नास्ति तथा संयुक्तावस्थायामपि, यथोच्येत किश्चित् 10 कार्य बुद्धिपूर्वकं पुरुषेण क्रियते, स्वत एव च कारणात् कार्यमुत्पद्यत इत्येतन्मृषा तैर्यथोच्यते-सत् कार्य यथा रूपादिभिराकाशादीनां भूतानामुत्पत्तिरिति वाचोयुक्तिमात्रेण प्रक्रियावशाद्भिन्नत्वादिति ।। (प्रत्येकमिति) प्रत्येकं वृत्ता रूपादिव्यक्तिर्भेदरूपैव, न सामान्यम् , सं[r]चावस्थितैकरूपापरस्परविविक्तैकरूपेत्येतन्मात्रसत्यमेव वस्तु, तस्य तु वस्तुनोऽभिवचनमात्रं-आभिमुख्येन प्रतिपत्तिनिमित्तं is समुदायवचनं घट इति पटो रथ इत्यादि वा, उच्यमान एव स रथः शब्दविकल्पितो वस्तुविपरीतः संवृति www हेतोः सत्त्वाद्वयभिचार इत्याह-अनैकान्तिकोद्भावनमिति । घटादेः समुदायरूपतया रथादिवत्तस्यापि पक्षान्तर्गतत्वेन व्यभिचारनिरूपकाधिकरणत्वाभावादनैकान्तिकत्वोद्भावनमाभासरूपमेवेत्याह-समुदायत्वादिति । ननु शुक्लनीलादिरूपेषु रूप. . सामान्यस्य सत्त्वेन, रूपसमुदायत्वात् अनवस्थितैकरूपत्वाच्चानैकान्तिकतेत्याशङ्कते-रूपरूपादीति, रूपं हि शुक्लनीलपीतादि रूपसमुदायात्मकं तच सदित्यभ्युपगम्यते शुक्लनीलादिस्वरूपत्वादेवानवस्थितैकस्वरूपमतोऽनैकान्तिकमिति भावः । रूपसामान्य20 समुदायरूपत्वं साध्यम्, तच्च रूपात्मके शुक्लनीलादिसमुदाये नास्ति रूपविशेषसमुदायरूपत्वात्तस्य, पृथक् पृथग्भूतशुक्लादिरूपव्यतिरिक्तरूपसामान्यस्वरूपसमुदायस्य शुक्लादिसमुदायेऽसत्त्वात् तादृशसमुदायस्यावस्तुत्वाद्विपक्षासिद्धेन नै कान्तिकत्वमित्युत्तरयति रूपसामान्येति । तद्व्याचष्टे-शुक्लादीति । समुदायस्यावस्तुत्वे वस्तुत्वं कस्येत्यत्राह-प्रत्येकमिति । प्रत्येकात्मना वर्तमाना - रूपादिव्यक्तिर्विशेषरूपैव न सामान्यात्मिका, घटादिगतरूपादिव्यत्यपेक्षया पटादिगतरूपादिव्यक्तेर्भिन्नत्वात् , सा च रूपादिव्य क्तिरेकरूपतयाऽवस्थितैव, न हि साऽनेकत्र वत्तते, तथाविधरूपादिव्यक्तिपरिज्ञापनार्थमेव घटः पटो मठः पृथिवीत्यादिसमुदाया26 त्मना वचनं क्रियते न तु घटादयः परमार्थसन्तः केचन सन्ति, केवलं शब्देन विकल्पज्ञानविषयाः संवृतिसन्तः परिकल्पितास्ते, अत एवासन्त इत्याशयेन व्याचष्टे-प्रत्येकं वृत्ता इति, एकस्मिन्नेकस्मिन् वृत्ताः, एकैकात्मना वर्तमाना रूपादिव्यक्तिविशेष एव न सामान्यमनेकत्र वृत्त्यभावादनेकात्मकत्वाभावाद्वेति भावः । परस्परेति । एतस्या रूपव्यक्तेरियं रूपव्यक्तिर्विविक्ता भिन्ना, अत एवम्भूता व्यक्तिरेव परमार्थतः सत्यभूतं वस्त्वित्यर्थः । सैव घटपटादिशब्दैः समुदायात्मना संवृतिसद्रूपतयोच्यत इत्याह-तस्य विति, रूपव्यक्तिरूपस्य वस्तुभूतस्य वित्यर्थः । न तु समुदायः कश्चित् , परमार्थभूतोऽस्ति किन्तु तद्विपरीतः 30 शब्दप्रकल्पितः संवृतिसन्, तेनैव च व्यवहार इत्याह-उच्यमान एवेति । शब्दस्य परिकल्पनामात्रार्थत्वे दृष्टान्तमाह सि.क्ष. छा. डे. स्वत्व० । सि.xx। २ सि.क्ष. छा. डे. सत्वावस्थितैः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy