SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ MAAmAnam ३८२ द्वादशारनयचक्रम् [विध्युभयारे तदेव ह्यसत्कार्यत्वं स्वभावान्तरेणापद्यते, सर्व व्यक्तं शब्दादि तन्तुपटादि वा व्यापितुं शीलमस्य तदसत्कार्यत्वं सर्वव्यक्तव्यापि, कस्माद्धेतोः ? प्रतिगुणं प्रकाशाद्योर्द्वयोः कार्यात्मनोः प्रागभूतत्वात्गुणं गुणं प्रति प्रतिगुणं, सत्त्वे द्वयोः प्रागभूतत्वादेव कार्यात्मनोः, तथा रजसि प्रकाशनियमयोः, तमसि प्रकाशप्रवृत्त्योः कार्यात्मनोरभूतत्वात् , अन्यगुणकारणकार्यात्मनामन्यत्रं व्यक्तिप्रवृत्तिनियतिका5 र्याणामसतामुत्पत्तेर्व्यवस्थानवचनात् प्रख्यापनवचनाचाभ्युपगतत्वात्तस्माद्वैशेषिककार्यवदसत्कार्यत्वम् । न केवलं वैशेषिकवदेव, किन्तर्हि ?बौद्धवद्वाऽसत्कार्यत्वम्, तथाभूतवस्तुनिर्मूलोत्पत्तित्वात्, द्वितीयक्षणघटवत् , पुरुषवत् । (बौद्धवद्वेति) बौद्धवद्वाऽसत्कार्यत्वम् , वरं हि वैशेषिकासत्कार्यतुल्यत्वं त्वदसत्कार्यत्वस्य, कारणैः सह कञ्चित् कालं तिष्टेतीति तैरिष्टत्वात् , इदं बौद्धासत्कार्यत्वतुल्यमेव ते प्राप्तम् , कुतः ? तथा10 भूतवस्तुनिर्मूलोत्पत्तित्वात्-तेन प्रकारेण भूतं वस्तु शब्दो रूपमित्यादि, तथाभूतवस्तुना निर्मूलोत्पत्तिस्त द्भावात् तथाभूतवस्तुनिर्मूलोत्पत्तित्वात् , किमर्थं पुनर्निमूलोत्पत्तित्वादिति सिद्धे तथाभूतवस्तुग्रहणं ? दृष्टान्तद्वयेनार्थद्वयप्रदर्शनार्थम् , तद्यथा-द्वितीयक्षणघटवत्-यथा क्षणः क्षणान्तरे उत्पन्न एवोत्तरस्मिन् पूर्वो निरुद्ध्यते, उत्तरश्च तदनन्तरमुत्पद्यते निर्मूलः, 'नामोन्नामौ तुलान्तरयोरिव' [ ] इत्युक्त त्वात् , तत्सहचरितश्च घटादिवस्तु पूर्वस्मिन्निरुद्ध पाश्चात्यस्योत्पादाभ्युपगमान्निर्मूलोत्पत्तिरेव, 15 पुरुषदृष्टान्तसाध्यञ्चोभयतत्साधादिदमपि सत्त्वादिप्रकाशादिकार्य शब्दादि सांख्यमतमिति योज्यम् । तस्मान्निर्मूलोत्पत्तिसाधाद्वौद्धासत्कार्यवादतुल्यतेति । भूतविकारत्वात् व्यक्तरूपा एव, एते सर्वेऽसत्कार्यरूपाः स्युः, सत्त्वे प्रवृत्तिनियमयो रजसि प्रकाशनियमयोस्तमसि प्रकाशप्रवृत्त्योरभावेन प्रकृतिकार्याणां प्रकाशप्रवृत्तिनियमात्मकानां कारणे एकैकावच्छेदेनावृत्तेरिति भावः । यथा हि शुक्लरूपावच्छिन्ने तन्तौ रक्तरूपाद्यवच्छिन्नस्य चित्रपटस्यासत्त्वं तथैव प्रकाशात्मनि सत्त्वे प्रवृत्तिनियमात्मनः शब्दादेः प्रवृत्त्यात्मनि रजसि 20 प्रकाशनियमात्मकशब्दादेनियमात्मनि तमसि प्रकाशप्रवृत्त्यात्मकशब्दादेरसत्त्वात् प्रकाशप्रवृत्तिनियमात्मकस्य शब्दादेरसत्कार्यत्वम् , शब्दादेश्च प्रकाशप्रवृत्तिनियमात्मकत्वं त्वया खीकृतमेवेत्याह-अन्यगुणेति । त्वदीयोऽयं वादो बौद्धपरिकल्पितासत्कार्यवादतुल्य इत्याह-बौद्धवद्वेति । वैशेषिकासत्कार्यवादे हि कार्योत्पत्त्यनन्तरं कारणे कार्यस्य सद्भावोऽभिमतः, त्वदीयवादे च शब्दादिकार्याणामसन्मयारब्धत्वात् सत्त्वादेरसत्त्वेन निर्मूलोत्पत्तित्वात् क्षणमात्रमपि न कारणे कार्यसत्त्वमिति बौद्धासत्कार्यतुल्यतैवेत्याह-वरं हीति, उत्तरस्मिन् क्षणे उत्पद्यमाने पूर्वः क्षणो निरुध्यते, इत्येकोऽर्थः, विनष्टाद्वीजादङ्कुरो जायते विनष्टात् 25 क्षीराद्दधि, विनष्टाच्च मृत्पिण्डाद्धट इत्यपरोऽर्थः, तत्र प्रथमपक्षे उत्तरक्षणोत्पत्तिसमकालं पूर्वक्षणनिरोधः प्राप्तस्तथासत्यचिरनिरुध्यमानस्य तदैव परिनिष्पन्नस्य कार्यजननोपयोगिव्यापाराभावेन हेतुत्वासम्भवादुत्तरक्षणो निर्मूल एवोत्पद्यते, अपरपक्षे तु बीजादेः कार्योत्पत्तिप्राक्काल एव विनाशात्तस्य हेतुत्वासम्भवेनाङ्करादेर्निमूलोत्पत्तिकत्वं स्फुटमेवेत्याशयेनाह-दृष्टान्तद्वयेनेति, क्षणदृष्टान्तेन घटदृष्टान्तेन चोत्पत्तिसमकालं विनाशः, विनाशोत्तरकालं वोत्पत्तिरित्यर्थद्वयम् । उत्पन्न एवेति उत्पद्यमानतादशायामेवेत्यर्थः, पदधातोानार्थत्वेन वर्तमाने क्तप्रत्ययात् । उत्तरक्षणश्च पूर्वक्षणविनाशव्यवधानव्यतिरेकेणोत्पद्यते इत्यर्थः, 30 विनाशकाल एवेति यावत , अभावग्रस्तेभ्यो बीजादिभ्योऽङ्करादीनामत्पद्यमानत्वादभावाद्धावोत्पत्त्या निर्मलोत्पत्तिरेवेत्याह तत्सहचरितश्चेति वस्तुमात्रस्य क्षणिकत्वेन क्षणसहचरितं घटादिवस्त्विति भावः, अथवा क्षणिकघटदृष्टान्तादनिमूलोत्पत्तित्वादसत्कार्यत्वं बौद्धासत्कार्यत्ववदित्येकोऽर्थः, पुरुषवादे पुरुषाद्यथा निर्मूला पुरुषेऽविद्यमानशब्दाद्युत्पत्तिः पूर्वमुपपादिता तथा तव शब्दाद्युत्पत्तिरिति द्वितीयोऽर्थ इत्याशयेनाह-पुरुषदृष्टान्तेति, सांख्यमतमिति सांख्यसम्मतमित्यर्थः । प्रतिगुणं १ सि. क. ब्राव्यक्तिः। २ सि. क. तिष्ठत इति । ३ सि निरुध्यते । WWMAN amwammmmmmmm Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy