SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ३८ तर्कतरङ्गिणी ___तृतीयमाह-यं पुरस्कृत्येति चं पुरस्कृत्य अग्रे कृत्वा-यथा पटं प्रति तन्तुरूपमन्यथासिद्धम् । तन्तुपुरस्कारेणैव तन्तुरूपस्य पूर्ववर्तिता गृह्यते । यतस्तन्तुरूपस्य तन्तुरूपत्वेन जनकत्वं ग्राह्यम् । जनकत्वग्रहे तन्तोर्ग्रह आवश्यकस्तथा च तन्तुरूपत्वेन कारणत्वं तन्तुत्वेनैव लाघवादावश्यकत्वात्तन्तुत्वेनैव कारणत्वमिति । ननु रूपत्वेनैव तन्तुरूपस्य कारणत्वमस्तु, तत्र तन्तु प्रवेशादिति चेत्, न । रूपत्वेन यदि कारणता तदा यत्किञ्चिद्रूपसत्त्वेऽपि पटोत्पत्तिः स्यात्, ततस्तन्तुरूपं पटं प्रत्यन्यथासिद्धमेव । चतुर्थीमाह-यमादायैवेति यथा घटं प्रति दण्डस्य पूर्ववर्तिता गृह्यते तथा दण्डत्वमादायैव, यथा दण्डो घटपूर्ववतीति । अत्र विशिष्टबोधे दण्डत्वमपि विषयो भवति । दण्डत्वस्य विशेषणत्वात्। अन्यथा दण्डज्ञानस्य निर्विकल्पकत्वापत्तिः । यतो विशेषणसम्बन्धाविषयकं ज्ञानं निर्विकल्पकमिति लक्षणम् । तथा च दण्डत्वमादायैव दण्डस्य पूर्ववर्तिता गृह्यते-इति दण्डेन घटं प्रति दण्डत्वमन्यथासिद्धम्। पञ्चमीमाह-जनकेति जनकंघटजनकं कुलालं प्रति पूर्ववर्तित्वे गृहीते एव जन्यं घटं प्रति 'पूर्ववर्तितकुलालपितुर्जनकता गृह्यते इति कुलालपिता कुलालेनान्यथासिद्धः । सा च कुलालपितृत्वेन रूपेणान्यथासद्ध(द्धिः) भवति । न तु कुलालत्वेन । यस्मिन्क्षणे घटं प्रति कुलालपितुर्जनकता कल्प्यते कुलालपितृत्वेन रूपेण तस्मिन्क्षणे कुलालं प्रति कुलालपितुर्जनकतां गृहीत्वा घटं प्रति जनकता गृह्यतेइति कुलालेन कुलालपिता घटं प्रत्यन्यथासिद्धः । मणिकाराणां मतेन यं पुस्कृकृत्येत्यादिकाया द्वितीयायाऽवश्यकल्प्यमाने त्यादिकायामेवान्तर्भावात्(भावः ?) यथा तन्तुरूपं पटं प्रत्यन्यथासिद्धम् । अवश्यकल्प्यमानो भवति तन्तुः, तत्सहभूतं तन्तुरूपमिति कथं यं पुरस्कृत्येत्यादिकाया एवार्थः । अवश्यकल्प्यमानेत्यादिरेव पञ्चम्याऽपि जनकं प्रतीत्यादिकाया अन्तर्भावोऽन्यं प्रतीत्यादिकाया-मेवान्तर्भावस्तथा च घटन्यं कुलालं प्रति पूर्ववर्तित्वे गृहीते एवेति यं प्रति घटं प्रति पूर्ववर्तिता गृह्यते एवेति पञ्चम्यां द्वितीयायामेवान्तर्भाव इति । (II) कारणलक्षणे 'नियत् पद विचारः । अथ पर्यवसन्नं लक्षणमाह-एतदन्यथेति तथा च प्रयोजकं तु काचिदन्यथासिद्धिस्तिष्ठत्येवेति भावः । -यथा कुलालपितुरीति अन्यथा सिद्धत्वे सति नियतपूर्ववर्तित्वमेव प्रयोजकत्वम् । न तु कारणकारणत्वम् । अन्यथाऽदृष्टत्वेन यागोऽप्यन्यथासिद्धः स्यात् । १. B omits इति. २. B पूर्ववर्तिता. ३. B omits the reading between इति...............च. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy