SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विकल्पग्राह्यस्य अस्वलक्षणत्वपरिहारः । ३३ 51 तन्न विकल्पानामाण्यनिवन्धनं त्रिकालावस्थायित्वादेरस्वलक्षणत्वं किन्त्वर्थ क्रियाऽयोग्यत्वनियन्धनमिति नान्योन्याश्रय इति । अत्राह-अधिकार्थक्रियाकारिणश्च परमाणुमात्रार्थक्रियातः क्षणमात्रावस्थाय्यर्थक्रियातो विशेषार्थक्रियातो वा सकाशादधिकार्थक्रियाकारिणः संस्थानस्य त्रिकालावस्थायित्वस्य सदृशपरिणामरूपसामान्यस्य च कुतोऽस्वलक्षणत्वम् ? किन्वर्थकियायोग्यत्वेन स्वलक्षणत्वमेव 5 स्यात् । विशंकलितपरमाणुमात्रार्थक्रियातो हि घटादिसंस्थानमधिकामेव धारणा ऽऽकर्षण लक्षणां तथा क्षणमात्रार्थक्रियातत्रिकालावस्थायित्वमधिकामेव दाह-पाकादिकां-क्षणमात्रार्थ51B क्रियातश्च त्रिकालावस्थायित्वार्थक्रियाया इदमेवाधिक्यं यत् क्षणमात्रेऽर्थक्रिया न सम्भवति, त्रिकालावस्थायित्वे च सम्भवतीति, एतच्च तृतीये प्रकाशे सप्रकाशं प्रकाशयिष्यामःतथा विशेषमात्रार्थक्रियातः सामान्यमधिकामेव सदृशप्रत्ययरूपामर्थक्रियां करोति । 10 तत् संस्थानादेरर्थक्रियायोग्यत्वेन परमार्थसत्त्वात् तद्ग्राहिणश्च विकल्पस्यानधिगतस्वलक्षणग्राहकत्वेन प्रामाण्यात् प्रमाणविकल्पप्रतिभासिसंस्थानभेदो बाह्यपरमार्थसद्वस्तुभेदनिबन्धनो न वासनामात्रनिबन्धन इति सिद्धम् । दूषणान्तरमाह____कथं चातीन्द्रियाणामविकल्पसंविदि तदापि प्रतिभासः ? 15 भेदोत्पत्तेः । कदा पुनः क्षणिकेष्वियं नास्ति ? वैशिष्टयं तु स्थूलताया अन्यन्न विद्मः । 52A कथं चातीन्द्रियाणामिन्द्रियाविषयाणां परमाणूनामविकल्पसंविदि विकल्पकलङ्कानङ्कितायां धियां तदापि निचयावस्थायामपि प्रतिभासो भवति । अयमर्थः- एकार्थक्रियाकारित्वेनोत्पन्नक्षणेऽपि परपाणवः सर्वथाऽप्यनुज्झित- 20 परमाणुस्वरूपा एव, यथावस्थितवस्तुदर्शन नैरिव कथश्चित् परमाणुरूपपरित्यागस्य भवद्भि स्नाश्रयणात् । अपरित्यक्तपरमाणुन्वरूपाश्च परमाणवः सदाऽप्यग्दिशामगोचर एव, 52B अन्यथा प्रचयक्षणात् प्रागप्युपलम्भः स्यात् । अतो निर्विकल्पकधियामेकत्वपरिणत्यभावे परमाणूनां प्रतिभासो न युज्यते । १ विकल्पाप्रामाण्यं निबन्धनं यस्यास्वलक्षणस्य ॥ २ प्रसः [प्रथमसमास: बहुव्रीहिरित्यर्थः] ॥ ३अधिका- 25 र्थक्रियाकारिणश्च कुतोऽस्वलक्षणत्वम् ॥ ४,५ [ = '६' विग्रहे षष्ठयन्तम् ] ॥ ६ चसः [=चतुर्थसमासः कर्मधारय इत्यर्थः ।। ७ अधिकार्थक्रियाकारित्वमेव भावयति ।। ८ तस्मात् ।। ९ सामान्य || १० चसः [ =चतुर्थसमासः = कर्मधारय इत्यर्थः] || ११ कथं चातीन्द्रियाणामधिकल्पसंविदि तदापि प्रतिभासः ।। १२ अर्वाग्दृशां गोचरत्वे ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy