SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ॥ श्री ऋषभदेवस्वामिने नमः ॥ ॥ श्री शश्वरपार्श्वनाथाय नमः॥ ॥ 'धामा'मण्डन श्री शान्तिनाथाय नमः ॥ । णमोऽत्थु णं समणस्स भगवओ महइमहावीरषद्धमाणसामिस्स ॥ ॥ श्री गौतमस्वामिने नमः ॥ ॥ श्री सदगुरुदेवेभ्यो नमः ॥ परमाहतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञाचार्यश्रीहेमचन्द्रसूरीश्वरशिष्याभ्याम् आचार्यश्रीरामचन्द्र-गुणचन्द्राभ्यां विरचितः स्वोपज्ञटीकासहितः द्रव्यालङ्कारः ॥ *द्वितीयः पुद्गलप्रकाशः ॥ मूर्तिमन्तः पुद्गलाः । स्पर्श-रस-गन्ध-वर्णा मुर्तिः । संस्थानं तु व्यभिचारि, धर्मा-ऽधर्म-मुक्तात्मनां लोक-शरीरसंस्थानत्वात् । ॥ स्वोपज्ञटीका ॥ एवं तावद द्रव्यपञ्चकमध्याजीवद्रव्यं स्व-परपरिज्ञानसम्पदा सकलद्रव्याणां 5 * सिद्धहेमशब्दानुशासनादिविविधग्रन्थप्रणेतृणां जैनाचार्याणां श्रीहेमचन्द्रसूरीणां रामचन्द्रगुणचन्द्रप्रभृतयो बहवः शिष्या आसन् , तेषु रामचन्द्रः प्रधानशिष्यः । आचार्य रामचन्द्रेण बहवो ग्रन्था विरचिताः, तेषु स्वोपज्ञटीकासहितो द्रव्यालङ्कारग्रन्थ आचार्यगमचन्द्र-गुणचन्द्राभ्यां संमील्य विरचितः । जनानां मते द्विविधानि द्रत्याणि - जीवा अजीवाश्च । अजीवाः पञधा पुद्गल-धर्मा-ऽधर्मा-ssकाशकालभेदात । एवं च एतेषां षण्णां ट्रव्याणां यद्वा कालस्य जीवाजीवपर्यायरूपतया जीवादिषु पञ्चसु द्रव्येष्वन्त- 10 र्भावात् अस्तिकायान्मकत्वाभावाच पञ्चानाम् अस्तिकायद्रव्याणां स्वरूपं तार्किकशल्या रामचन्द्र-गुणचन्द्राभ्यामेव प्रथम निरूपितं द्रव्यालझारग्रन्थे । अत्र ग्रन्थे त्रयः प्रकाशा वर्तन्ते. तत्र प्रथमे जीवप्रकाशे जीवस्वरूप, द्वितीये पुद्गलप्रकाशे पुद्गलस्वरूप, तृतीयेऽकम्पप्रकाशेऽवशिष्टानां धर्मादिद्रव्याणां स्वरूपं वर्णितम् । अस्य ग्रन्थस्य अतिविस्तृता स्वोपज़टीकापि आचार्य रामचन्द्र-गुणचन्द्राभ्यां विरचिता । द्रव्यालङ्कारस्य विक्रमसंवत् १४९२ वर्षे लिखित एक आदर्श: ‘अहम्मदाबाद नगरे 'हाजापटेलनी पोल' मध्ये 15 संवेगी-उपाश्रये, अपरश्चादर्शो राजस्थाने 'बेडा' नगरे विद्यते। किन्तु तालपत्रोपरि विक्रमसंवत् १२०२ वर्षे लिखितो द्रव्यालङ्कारटीकाया एक एव हस्तलिखित आदर्शो जेसलमेरुदगे जिनभद्रमरिसंस्थापिते Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy