SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कीर्तिकलाव्याख्याविभूषितः भिन्नक्रियाजन्ये, अन्यथा तयोर्भेदो न सिद्ध्येत् । कार्यभेदे कारणभेदस्य तन्त्रत्वात् । नाऽप्यक्रमण, एकदा विरुद्धानेकस्वभावस्यैकत्राऽसम्भवेनैकदैव विरुद्धाविरुद्धसकलकार्यकरणाऽसम्भवात् । एकेन स्वभावेन विरुद्धनानाक्रियाकरणासम्भवस्योपपादितत्वाच्च । तथा घटादेरप्येकरूपत्वे क्रमाक्रमाभ्यामुक्तरीत्यैवाऽर्थक्रिया न सम्भवति । तथा पूर्वस्मिन्नेव क्षणे सकलार्थक्रियाकरणादुत्तरस्मिन् क्षणे पदार्थानां निष्क्रियत्वापत्तिश्च । ततश्चाऽर्थक्रियाकारित्वमेव च वस्तुलक्षणमिति तदभावे जगतोऽवस्तुत्वप्रसङ्गश्च । अनित्यैकान्तेऽपि क्रमाऽक्रमाभ्यामर्थक्रिया न युज्यते । क्षणिकानामपरस्मिन् क्षणेऽवर्तनात्क्रमाऽसम्भवात् । अक्रमेण चार्थक्रियाकारित्वस्योक्तरीत्यैवाऽसम्भवात् । एवञ्च पुण्यपापाऽपलापमुखेन लक्षणाऽभावाच्च वस्तुमात्राऽपलापप्रसङ्ग इति हृदयम् ॥४॥ एवञ्चाऽगत्या वीतरागदर्शित एवोपायः समाश्रयणीय इत्याहयदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथाऽऽत्थ भगवन्नैव तथा दोषोऽस्ति कश्चन ॥५॥ यदेति - भगवन् ! ऐश्वर्यशालिन् ?, भगोऽस्यास्तीति 'तत्सम्बोधने । यदक्तम्-" ऐश्वर्यस्य समग्रस्य धर्मस्य तपस:श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणे' ति । यथा येनप्रकारेण, आत्थ-दिशसि, त्वमिति शेषः । तथा तेन प्रकारेण । यदा, तुर्विशेषे, तदेवाह-वस्तुनः आत्मादिसकलपदार्थस्य, नित्यानित्यत्वरूपता = अनेकान्तात्मकता, उत्पादव्ययध्रौव्यात्मकतेति यावत् । Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy