SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीवीतरागस्तवे षष्ठः प्रकाशः विशेषणसत्त्वादेव हेतोः, वन्ध्यास्तनन्धयप्रायान् = वन्ध्यायाः पुत्रो त्पादयोग्यताशून्याया यः स्तनन्धयः स्तन्यपानकर्त्ता पुत्रः, तत्प्रायाः तत्तुल्यान् । यथा हि वन्ध्यास्तनन्धयोऽसन् । यदि स्तनन्धयं न वन्ध्यात्वम्, अथ वन्ध्यात्वम्, न तस्याः स्तनन्धयः, विरौ धात् । तथा मुक्ताश्चेन्नोत्पादादिव्यापारवन्तः, कायादियोगशून्य स्यैव मुक्तत्वात् । तादृशव्यापारवन्तश्च न मुक्ता इति विरोधा दुभयगुणविशिष्टा असन्त एव । किञ्च जैननये जगतो नित्यत्वे स्वीकारात्तत्कत्रीदिवर्णनं वन्ध्यास्तनन्धयवर्णनमेवेति भावः । अ एव, तादृशान् देवान् = देवशब्देन परैराख्यातान् श्रयेत् = आश्रयेत् ?, तत्पुरः पूत्करणादिनोपासनादिना वा, न कोऽपीत्यर्थः चेतनस्य सत्सु प्रवृत्तेरिति भाव: कथञ्चित्तादृशदेवस्वीकारेऽपि तेषां रागपरतन्त्रतया न तत् इष्टसिद्धिरिति तदुपासकाः शोचनीया एवेत्याहकृतार्थ जठरोपस्थदुः स्थितैरपि दैवतैः । भवादृशानि नुवते हा हा ? देवास्तिकाः परे ॥ ८ ॥ कृतार्थी इति - देवास्तिका : - वर्णितप्रकारा देवाः सन्ती त्येवं बुद्धिमन्तः, परे = तीर्थान्तरीयाः, यद्वा देवेति सम्बोधनम् तथा च- देव != भगवन् वीतराग !, परे, आस्तिकाः = अस्ति दिष्टमिति मतिर्येषां तादृशाः, जठरोपस्थदुः स्थितैः = जठरमुदरं च उपस्थो गुह्येन्द्रियं च, उदरपदं रसादिभोगोपलक्षणम्, उपस्थप ५२ 110 11 Jain Education International 2010_dor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy