SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४० श्रीवीतरागस्तवे पञ्चमः प्रकाशः मालवेति-तव-दिशतो वीतरागस्य, मालवकैशिकी मुख्य: ग्रामरागपवित्रितः = मालवकैशिकी तदाख्यो रागविशेषो मुख्य येषु तै स्तादृशैर्ग्रामैरारोहाऽवरोहविशेषैः, स्वरसमूहविशेषै वी, तत्स हितैः रागैः स्वनामख्यातै गायनप्रकारैः पवित्रितो विशदीकृतः किञ्च, दिव्यः = देवैवीद्याद्युपकरणैः कृत्वा प्रगुणितत्वादलौकिकः नहि लोके कोऽपि रागमयं तथा दिशतीति भावः । ध्वनिः- देश नावचोनादः, मृगैः = हरिणैः, उपलक्षणत्वात्पशुभिः, अपिना शेष सर्वप्राणिसमुच्चयः । हर्षोद्ग्रीवैः = हर्षेणाऽतियित्वाज्जातहर्षात्मक विस्मयौत्सुक्यादिनोद्ग्रीवैरुल्लम्बितगलैः, श्रवणे समुत्सुकानां जाति रियमिति बोध्यम् । पीतः = सादरं सोत्कण्ठं च श्रुतः भगवतो देशनावाची हि रागमय्यो देवैरुपवीणिताः श्रुतिमनोहरा श्र भवन्तीति विलक्षणोऽतिशय इति भावः ॥ ३ ॥ चतुर्थ प्रातिहार्य माह— तवेन्दुधामधवला चकास्ति चमरावली । हंसालिखि वक्त्राब्जपरिचर्यापरायणा ॥ ४ ॥ तवेति- तब, इन्दुधामधवला - इन्दोश्चन्द्रस्य धाम चन्द्रिके धवला शुभ्रा, चमरावली - वालव्यजनश्रेणिः, देवै हि चामरैवज्य भगवानिति भावः । वक्त्राब्जपरिचर्यापरायणा - वक्त्रं मुखमब्ज मिव, अत एव तस्य परिचर्यायामुपचारे परायणा सततं व्यापू ता, हंसालि:- हंसश्रेणिरिव, हंसस्याऽपि धवलत्वादुत्प्रेक्षा । हंस - Jain Education International 2010_dor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy