SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीवीतरागस्तवे चतुर्थः प्रकाशः " पदं व्यवसितत्राणस्थानलक्ष्माधिवस्तुष्वि" त्यमरः । धत्ता= कुरुतः, यत्र तव पादौ पतत इति यावत् । तत्र, सुरासुराः, पङ्कजव्याजात-पद्मापदेशात् , पङ्कजवासिनीम् पद्मालयां, श्रियम् लक्ष्मीम् , किरन्ति-क्षिपन्ति । तत्रैव सर्वसम्पदो यत्र तव पादौ, सर्वसम्पदस्तव पादलमा एवेति यावत् । तत्सूचनायैव देवैः स्वर्णपद्मानि तव पादपातस्थाने न्यस्यन्ते, पङ्कजन्यासे च तद्वासिन्या न्यास उचित एवेति भावः ॥३॥ देवविकृतबिम्बातिशयमाहदानशीलतपोभावभेदाद्धम चतुर्विधम् । मन्ये युगपदाख्यातुं चतुर्वक्त्रोऽभवद् भवान् ॥४॥ दानेति—मन्ये सम्भावयामि, यदिति शेषः । किमित्याहभवान् , दानशीलतपोभावभेदात् – दानं च शीलं च तपश्च भावश्च, तेषां समाहारः, तद्पाद्भेदात्प्रकाराद्धेतोः, चतुर्विधं धर्मम् , युगपत् सहैव, आख्यातुम् = उपदेष्टुम् , चतुर्वक्त्रः = चत्वारि वक्त्राणि यस्य स तादृशः, चतुर्मुख इत्यर्थः । “वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखमि" त्यमरः । न कमुखेन युगपद्धर्मचतुष्टयोक्तिः सम्भवतीतिकृत्वेति भावः । एकं पूर्वमुख स्वमुखम् , अपरदिक्षु च देवविकृतार्हत्प्रतिबिम्बानां मुखत्रयमित्येवमर्हतः समवसरणे चतुर्मुखता जायते, तच्च स्वप्रभावादेवेत्येव मुक्तिः । प्रतिविम्बमुखानामर्हन्मुखत्वाऽध्यवसायमूला देवविकृते स्वी Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy