SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीवीतरामस्तो यो प्रस: लालसोऽपि चे" त्यमरः । मनोहरत्वगुणानुरक्त इत्यर्थः । जातो. ऽस्मि । त्वद्गुणानुरागित्वमेव जन्मसाफल्यं धन्यत्वं कृतकृत्यत्वाच । अन्यथा त्वन्यथैव । जन्मसाफल्यादौ प्रकारान्तरस्याऽभावादिति स्वस्य भगवदेकालम्बनत्वसूचनेन स्वस्य भगवति भक्तपकिरको ध्वनितः ॥९॥ " इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायां पञ्चदशः प्रकाशः ॥ १५ ॥ षोडशः प्रकाशः भक्तिसत्त्वेऽपि स्वस्थाशक्तत्वात्त्वत्प्रसादादेव निस्तार इत्याशयवान् , स्वस्य चाञ्चल्यं प्रकाशयन्नाह त्वन्मताऽमृतपानोत्था इतः शमरसोर्मयः । पराणयन्ति मां नाथ ! परमानन्दसम्पदम् ॥१॥ त्वदिति–नाथ !, इतः = अस्मात्पार्धात् , एकत इति यावत् । त्वन्मताऽमृतपानोत्थाः-तव मतं सिद्धान्तः, आगम इत्यर्थः, तदेवामृतमिव भवविषोपशमकत्वादमृतं तस्य पानेन सरुचि महणरूपेणोत्तिष्ठन्तीति तादृश्यः, त्वत्सिद्धान्ताऽधिगमजा इत्यर्थः । समरसोर्मयः शमो निस्तृषता, स एव तर्पकत्वाद्रस इव, तस्योर्मयस्वरङ्गवत्सततत्वात्परम्पराः, एतेन भगवन्मतज्ञानजः शमो न श्मशा Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy