SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कार्तिकलान्याच्याविभूषितः मृतिप्रदविषेण तुल्यम् , अत्यन्तं वैगुण्यात् । तथा मुक्तिमार्गप्रदर्शकमनेकान्तात्मकत्वाद्यथावस्थितवस्तुप्रतिपादकमाप्तक्लप्तं च त्वच्छासन नान्यशासनैरसर्वज्ञकल्पितत्वेनाऽप्रमाणैरेकान्तात्मकत्वेनाऽयथार्थव-- स्तुप्रतिपादकमधपरम्परापोषकः कदापि तुल्यम् । एवञ्च तयोः साम्यं मन्यमा नितरामज्ञा एवेति तात्पर्यम् ॥ ५॥ महतोऽवर्णवादश्रुतिकथातोऽनेडमूकस्वमेव वरम् , प्रत्यवायाननुबन्धादित्वाह - अनेडमूका. भूयासुस्त येषां त्वयि मत्सरः । शुभोदकीय वैकल्यमपि पापेषु कर्मसु ॥६॥ अनेडेति-भगवन् !, त्वयि, येषाम् , मत्सरः = द्वेषः, "मत्सरोंऽन्यशुभद्वेषे " इंति कोशः । तें, अनेडमूका:= वाक्श्रुतिरहिताः, भूयासुः सन्त्वित्याशीर्ममेत्यर्थः । 'एडमूकाऽनेडमूको त्ववाक्श्रुतौ', (अ. चि. ।।३४८१) इति । ननु नाशीरियं किन्तु प्राकृतजनकृतः शापः, ततश्च तवं साधोः कस्याप्यनि-- ष्टोक्तिरयोग्येति चेन्न, तदाह - वैकल्यम् = अङ्गादयुपकरणरहितता, अपिभिन्नक्रमः शुभोदकीयेत्यनन्तरं बोध्यः । पापेषु-पापनिमित्तेषु, कर्मसु-क्रियासु, शुभोदकाय-शुभो य उदर्कः परिणामः, तस्मै, जायते इति शेषः । अपिना नाङ्गादिवैकल्यं केवलं तत्तदुपभोगाद्यभावेन दुःखप्रयोजकमेवेति सूच्यते । महतोऽवर्णवादश्रुतिकथाजन्यप्रत्यवायपरिहारेणाझवैकल्यं तदंशे समीहितमाशीरेवेति Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy