SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीवीतरागस्तव चतुर्दश: प्रकाशः अत एवहिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्यनुयुञ्जताम् ? ॥६॥ हिंसका इति-भगवन् !, त्वया, हिंसकाः वधोद्यता उपसर्गकरणप्रवृत्ताश्चण्डकौशिकादयः, अपिना हिंसकानामुपकाराऽनहत्वं ध्वन्यते, यद्वाऽहिंसकानां तु कथैवकेति सूच्यते । उपकृताः सन्मार्गप्रापणेनाऽनुगृहीताः । तथा, आश्रिताः आज्ञाराधनादिना भक्तिमन्तः, अपिना लोके आश्रितानामुपेक्षानहत्वं ध्वन्यते । उपेक्षिताः ताटस्थ्येनाऽवलोकिताः, व्यसनेभ्यो न रक्षिताः । सुनक्षत्रमुन्यादयो दह्यमाना अपि न रक्षिता इति प्रसिद्धमेवेति भावः । इदम्-हिंसकोपकरणाश्रितोपक्षेणरूपम् , ते तव वीतरागस्य, चरित्रम् आचरणम् , चित्रम् आश्चर्यम् , लोके तद्विपरीतप्रकारस्यैवोपलम्भादिति भावः । अत एव, के-किम्प्रकारा जनाः, पाकारोऽनास्थायाम् , पर्यनुयुञ्जताम् कथमित्थं कृतमिति प्रेरयन्तु ?, न केऽपीत्यर्थः । लौकिकानामलौकिकचरित्रविषयपर्यनुयोगस्यानर्हत्वात् , । एतदद्भुतं चरित्रं तवैव नाऽन्यस्येति भावः ॥६॥ __ भगवतः समाधेरलौकिकत्वमाह तथा समाधौ परमे त्वयात्मा विनिवेशितः । सुखी दुःख्यस्मि नाऽस्मीति यथा न प्रतिपनवान् ॥७॥ तथेति-भगवन् !, त्वया, परमे = इतरविलक्षणत्वादुत्कृष्टे, Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy