SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कीर्तिकलाव्याख्याविभूषितः ११५ अत एव च चारित्रहीनोऽपि स्यादिति स न तदर्हः, स्वयमसिद्धत्वादिति भावः ॥२॥ भगवतः सहेतु सकलकर्मक्षयमाहअचण्डवीरव्रतिना शमिना समवर्तिना । त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥३॥ अचण्डेति—अचण्डवीरव्रतिना अचण्डोऽकोपनः, स चाऽसौ वीरव्रती च वीरवत्प्राणात्ययेऽपि प्रतिज्ञातनिर्वाहकः कर्तव्ये वर्धमानो साहो लक्ष्यसिद्धिं विनाऽपरावर्ती च, तेन तादृशेन, नन्वचण्डो वीरव्रतीति विरुद्धमित्यत आह-शमिना निस्तृष्णेन, सतृष्णस्य हि कोप इति भावः । शमे भङ्गया मानमाह-समवर्तिना-समं सदृशं सर्ववस्तुषु यथा स्यात्तथा वर्तते व्यवहरतीति सः, समदृष्टिरित्यर्थः । अन्तकश्च । तेनेवेति ध्वनिः । “ समवर्ती परेतराडि" त्यमरः । कथमन्यथाऽविशेषेण सदुपदेश इति भावः । अत एव, त्वया भवतैव, कुटिला: श्रेयःप्रतिपन्थित्वात्प्रतिकूलत्वादनुजवः, कर्मकण्टकाः कर्माणि कण्टका इव दुःखाऽनुबन्धित्वात्ते, कामम् अत्यर्थम् , साकल्येनाऽपुनर्भवरूपेण च यथा स्यात्तथा, अकुट्यन्त विनाशिताः । अन्तकेन जीव इव भवता कर्माण्यकुट्यन्तेत्यर्थः । नानीदृशः कोऽपि तादृशः कर्मनाशक इति त्वमेव सर्वमतिशेषे इति भावः ॥३॥ अतएवअभवाय महेशायाऽगदाय नरकच्छिदे । Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy