SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कीर्सिकडायास्याविभूषितः तीति न तत्प्रमाणमिति चेत्तत्राह-इचम्-त्वयि सर्वे गुणाः सर्वात्मनेयुक्तप्रकारा, स्तुतिः-माहात्म्यवर्णनम् , मिथ्या असत्या, निर्मूला, कल्पिता वेति, चेत् यदि, तत्-तर्हि, सभासदः सभ्याः परीक्षकाः, प्रमाणम् =अवधेयवचना निणेतारः, अत्र विषये इति शेषः । विवादे हि सभ्य एव निर्णता, स यदि 'इथं स्तुतिमिथ्ये' ति व्यवस्था हदाति, तर्हि सा तथा, अन्यथा त्वन्यथा । वीतरागो हि निर्दोष इस्याबालगोपालं प्रतीतः, दोषमूलस्य रागस्यैव तत्राऽभावादिति सभ्या मदुक्तार्थमेव समर्थयन्तीति नाहं 'स्वमुत्कृष्टं कथयती' त्येवं वचनीय इति भावः । वीतरागः सर्वगुणपात्रमिति विलक्षणं माहात्म्यं तस्य, कोऽपि किमपि वा जल्पतु, सभ्यास्तु मदनुकूला एव युक्तिविचक्षणा इति हृदयम् ॥७॥ तादृशस्य महतः स्तुत्या स्वस्य कृतार्थत्वं प्रतिपादयन्नुपसंहरति महीयसामपि महान् महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी स्तुतेर्गोचरमागमत् ॥८ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे एकादशः प्रकाशः ॥११॥ - महीयसामिति-महीयसाम् अन्यैः महत्तरत्वेन स्वीकृतानां पौद्धादीनाम् , अपिना महदादीनां तु कथैव केति सूच्यते । महान् उत्कृष्टः, सर्वात्मना सर्वगुणवत्त्वेन सभ्यः समर्थितत्वादिति Jain Education International 2010_03r Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy