SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कीर्तिकलाव्याख्याविभूषितः षामद्भुतानां यो निधिराकरस्तस्येशाय; सर्वेषामद्भुतानां त्वमीश इति तस्मै, तुभ्यम् भगवते भगवानित्यन्वर्थविशेषणविशिष्टाय, नमः । अस्त्वितिशेषः । नमस्कार एवाऽस्माकं शक्यः, न तु तवाद्भुतगुणवर्णनमिति भावः ॥ ८ ॥ इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायां दशमः प्रकाशः ॥ १० ॥ एकादशः प्रकाशः सम्प्रति माहात्म्यं वर्णयन् वीतरागं स्तौतिनिघ्नन् परीषहचमूमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं महतां कापि वैदुषी ॥१॥ निघ्नन्निति-चीतराग !, परीपहचमूम् परितः सर्वतः कायेन मनसा वाचा च सह्यन्त इति परीषहाः क्षुदादयो द्वाविंशतिः प्रसिद्धाः, तेषां च चक्रम् , परीषहसमूहमिति यावत् । “वरूथिनी चमूश्चक्रम् " (अ. चि० ।३।७४६।) इति । निछनन् सहनेन कृत्वा हतमिव कुर्वन् । यथा हि निहननेन परसैन्यविनाशस्तथा सहनेन परीषहाणां विनाश एव भवति, तत्फलस्याऽस्वस्थताया अनुत्पादात् । परीषहाणां चमूत्वं च विनाश्यत्वसाधासमुदायरूपत्वाच्च । किञ्च परसैन्याहनने स्वस्य पराजयादिसम्भवः, Jain Education International 2010_For Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy