SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ३८२ श्रीउत्तराध्ययनदीपिकाटीका-२ तसपाणे वियाणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥२३॥ व्याख्या-यस्त्रसान् प्राणान् पुनः स्थावरान् सङ्ग्रहेण समासेन सङ्केपेण विज्ञाय, चाद्विस्तरेण, यदि वा सङ्ग्रहो वर्षाकल्पादिस्तेन, जीवरक्षार्थत्वात्तस्य, यो न हिनस्ति त्रिविधेन योगेन मनोवाक्कायकरणकारणानुमतिरूपेण तं वयं ब्राह्मणं ब्रूम इति । यदुक्तमारण्यके यदा न कुरुते पापं, सर्वभूतेषु दारुणं । कर्मणा मनसा वाचा, ब्रह्म सम्पद्यते तदा ॥१॥[ ] ॥२३॥ कोहा वा जइ वा लोहा, हासा वा जइ वा भया । मुसं न वयइ जो उ, तं वयं बूम माहणं ॥२४॥ व्याख्या-क्रोधात् यदि वा लोभात् अथवा हासात् , यदि वा भयात् मृषां असत्यवाणी यस्तु न वदति तं वयं ब्राह्मणं ब्रूमः, यदुक्तमहारण्यके यथा सर्वानृतत्यक्तं, मिथ्याभाषाविवर्जितं । अनवद्यं च भाषेत, ब्रह्म सम्पद्यते तदा ॥१॥[ ] ॥२४॥ चित्तमंतमचित्तं वा, अप्पं वा यदि वा बहुं । न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ॥२५॥ व्याख्या-पुनर्यच्चित्तमन्तं द्विपदादि, वा अचित्तं सुवर्णादि, अल्पं यदि वा बहं प्रचुर अदत्तं दायकेनाऽनर्पितं यः स्वयमेव न गृह्णाति, तं वयं ब्राह्मणं ब्रूमः ॥२५।। यदुक्तमारण्यके परद्रव्यं यदा दृष्ट्वा , आकुलं ह्यथवा रहे । धर्मकामो न गृह्णाति, ब्रह्म सम्पद्यते तदा ॥१॥[ ] दिव्वं तिरिक्खमाणुस्सं, मेहुणं जो न सेवइ । मणसा कायवक्केण, तं वयं बूम माहणं ॥२६॥ व्याख्या-पुनर्यो दिव्यतिर्यग्मानुष्यं मैथुनं न सेवते मनसा कायेन वचसा च, ___ तं वयं ब्राह्मणं ब्रूमः, यदुक्तमारण्यके देवमानुषतिर्यक्षु, मैथुनं विर्जयेद्यदा । कामरागविरक्तश्च, ब्रह्म सम्पद्यते तदा ॥१॥[ ] ॥२६।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy