SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ पञ्चविंशं यज्ञीयाध्ययनम् ३७९ व्याख्या हे विजयघोष ! ये परं च पुनरात्मानमेव समुद्धत्तुं संसारकमान्निस्तारयितुं समर्थास्तान् स्वपरनिस्तारकांस्त्वं न जानासि, अथ चेत्त्वं जानासि तदा भण! कथय ! इत्याक्षेपोक्तिः ॥१२॥ एवं मुनिनाक्षिप्तः सः तस्सक्खेवपमोक्खं च, अचयंतो तहिं दिओ । सपरिसो पंजलिउडो, पुच्छई तं महामुणिं ॥१३॥ व्याख्या-तस्य मुनेराक्षेपः प्रश्नस्तस्य प्रमोक्षमुत्तरं तमशक्नुवन् दातुं स तस्मिन् यज्ञे द्विजः सपर्षत् सभान्वितः प्राञ्जलिर्भूत्वा पृच्छति तं महामुनि प्रति ॥१३॥ वेयाणं च मुहं बूहि, बूहि जंनाण जं मुहं ।। नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ॥१४॥ व्याख्या हे मुने ! त्वमेव वेदानां मुखं ब्रूहि ! पुनर्यद् यज्ञानां मुखं तन्मे ब्रूहि ! पुनर्नक्षत्राणां मुखं ब्रूहि ! पुनर्यद्धर्माणां मुखं तमपि ब्रूहि ! पुनः पुनर्ब्रहीत्यादरज्ञप्त्यै ।।१४|| जे समत्था समुद्धत्तुं, परमप्पाणमेव य ।। एयं मे संसयं सव्वं, साहू कहय पुच्छिओ ॥१५॥ व्याख्या-पुनर्ये पुरुषाः परं च पुनरात्मानमपि संसारादुद्धर्तुं समर्थाः सन्ति, एतन् 'मे' मम संशयविषयं वेदमुखादिकमस्ति, तत् हे साधो ! त्वं मया पृष्टः सन् सर्वं कथयस्व ! ॥१५॥ मुनिराह अग्गिहोत्तमुहा वेया, जन्नट्ठी वेयसामुहं । नक्खत्ताणं मुहं चंदो, धम्माणं कासवो मुहं ॥१६॥ व्याख्या-अग्निहोत्रमग्निकारिका, सा चेह कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः । धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ॥१॥[अग्निका. अष्ट. श्लो.१] इत्यादि रूपा गृह्यते । तदेव मुखं प्रधानं येषां तेऽग्निहोत्रमुखा वेदाः, वेदानां हि दनः इव नवनीतमारण्यकं प्रधानं, तत्र च सत्यं तपः सन्तोषः संयमश्चारित्रमार्जवं क्षमा धृतिः श्रद्धा अहिंसेत्येतद्दशविधमिह धामेति । धामशब्देन धर्म एव, तदनुसारि चोक्तमेवाग्निहोत्रं । ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy