SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशं प्रवचनमात्रीयमध्ययनम् ॥ प्रागध्ययनेऽन्येषां सन्देहः केशिगौतमवत् सह्य इत्युक्तं । तत्सन्देहस्फेटनं च वाक्समित्या स्यादिति तद्ज्ञप्त्यै चतुर्विशं प्रवचनमातृनामाध्ययनमाह अट्ठप्पवयणमायाओ, समिई गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तीओ आहिया ॥१॥ व्याख्या-अष्टौ प्रवचनमाताः प्रवचनमातारो वा, 'समिई'त्ति समितयः, सं सम्यग् रीत्या इतिरात्मनश्चेष्टा समितिः, सिद्धान्तसङ्जा, इर्यादिचेष्टासु पञ्चसु, 'गुत्ति'त्ति गोपनं गुप्तिः सम्यग्योगनिग्रहस्तथैव चेति समुच्चये, इति पञ्च समितयस्तिस्रो गुप्तयश्च, इत्यष्टौ आहिता आख्याता जिनैः ॥१॥ ता नाम्नाह इरियाभासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती य अट्ठमा ॥२॥ व्याख्या-ईरणमीर्या गतिः, भाषणं भाषा, एषणं एषो गवेषणं तं करोतीत्येषणा, आदानं ग्रहणं पात्रादेः, निक्षेपोपलक्षणमेतत् , तत एतेषां समाहारे ईर्याभाषैषणादानं, उच्चारे उच्चारादिपरिष्ठापनायां च, समितिशब्दः प्रत्येकं योज्यः, ईर्यासमितिरित्यादि, इतिः समाप्तौ, एतावत्येव समितयः, तथा मनसो गुप्तिरशुभनिग्रह: शुभे प्रवृत्तिश्च मनोगुप्तिः, एवं वाग्गुप्तिकायगुप्ती अपि, एवं मीलनेऽष्टौ प्रवचनमातरो ज्ञेयाः ॥२॥ निगमयति एया उ अट्ठ समिईओ, समासेण वियाहिया । दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ॥३॥ व्याख्या-एता अष्ट समितयः, गुप्तीनामपि प्रवचनविधिना सच्चेष्टात्मकत्वा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy