________________
नवमं नमिप्रव्रज्याध्ययनम्
१४७ पर्वतमाना राशयो भवेयुः, सिया स्यात् कदाचित् , हुर्निश्चये, कैलाससमा एव, कैलासो मेरुः' इति वृद्धाः, तेऽप्यसङ्ख्याः , न तु द्वित्रा एव । नरस्योपलक्षणात् स्त्रियः क्लीबस्य वा, न तैः कैलाससमैरसङ्ख्यैः स्वर्णरूप्यादिभिः किञ्चिदल्पमपि तोषापादानं स्यात् , 'न तेण'त्ति न तेनेति, सूत्रत्वाद्वचनव्यत्ययः, इच्छा हुरिति यस्मादाकाशसमा अनन्तिका अन्तरहिता। उक्तञ्च
न सहस्राद्भवेत्तुष्टि-र्न च लक्षान्न कोटितः ।
न राज्यान्नैव देवत्वा-न्नेन्द्रत्वादपि देहिनाम् ॥१॥ ॥४८॥ [ ] किं सुवर्णरूप्ये केवले एव नेच्छापूर्तये ? इत्याशङ्क्याह
पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह ।
पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे ॥४९॥ व्याख्या-पुढवी पृथ्वी मही, शालयो लोहितशाल्यादयो, यवाः, चः शेषान्नसमुच्चयार्थः, एवावधारणे, स च भिन्नक्रमः, हिरण्यं, ताम्राद्युपलक्षणं, पशुभिर्गवाश्वादिभिः सह सम्पूर्ण समस्तं, नैवालं न समर्थं, इच्छापूत्य एकस्य जन्तो । एतत् श्लोकद्वयोक्तं विदित्वा, यद्वा इतीत्यस्माद्धेतोविद्वान् तपो द्वादशविधं चरेदासेवेत । तत एवं निस्पृहतयैवेच्छापूर्तिः, अनेन सन्तोष एव निराकाङ्क्षत्वे हेतुर्न तु हिरण्यादिवर्द्धनमित्युक्तं । तथा च हिरण्यादि वर्द्धयित्वेत्यत्र यदनुमानमुक्तं तत्साकाङ्क्षत्वं हेतुर्ममाऽनीहत्वेनाऽसिद्धः, न चाकाङ्क्षणीयवस्तुपरिपूर्तेकस्तस्य सिद्धत्वं, सन्तुष्टतया ममाकाङ्क्षणीयवस्तुन एवाऽभावात् ॥४९।।
उक्तः स्वर्णादिसङ्ग्रहः ।९। अथ भोगत्यागप्रश्नः । शक्रः प्राह
एयमद्वं निसामित्ता हेऊकारणचोइओ ।
तओ नमि रायरिसिं, देविंदो इणमव्ववी ॥५०॥ व्याख्या-प्राग्वत् । असत्सु विषयेषु निवृत्तोऽयमिति निश्चित्य, सत्सु तेष्वरागोऽस्त्युत नेति विवेक्तुमाह
अच्छेरगमब्भुदए, भोए जहसि पत्थिवा ।
असंते कामे पत्थेसि, संकप्पेण विहम्मसि ॥५१॥ व्याख्या-'अच्छेरगं'ति आश्चर्यं वर्त्तवे, यत्त्वमेवंविधोऽपि 'अब्भुदए' अद्भूतकानाश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव । अथवा 'अब्भुयए'त्ति अभ्युदयेऽपि भोगां
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org