SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ५२ हितोपदेशः । गाथा- ३०, ३१, ३२- उत्तमगुणसङ्ग्रहाख्यं द्वितीयं मूलद्वारम् ।। गुणानां माहात्म्यम् ।। ।। उत्तमगुणसङ्ग्रहाख्यं द्वितीयं मूलद्वारम् ।। व्याख्यातं सप्रपञ्चं प्रथमं सम्यक्त्वद्वारम्, साम्प्रतमुत्तमगुणसङ्ग्रहाख्यं द्वितीयं द्वारं व्याचिख्यासुरादौ तदवतरणिकागाथामाह एसो य दंसणमणी उत्तमगुणकणयकडयसंघडिओ । सविसेस होइ थिरो जुत्तो गुणसंगहो तम्हा ।। ३० ।। एष च । चशब्दः पुनरर्थे । अयं पुनर्दर्शनमणिः । दर्शनं सम्यक्त्वम्, तदेवात्मनो अनाहार्यमण्डनत्वेन मणिरिव मणिः रत्नविशेषः, सुतरां स्थिरो भवति स्थैर्यं भजते, कथम् ? इत्याह 'उत्तमगुणकनककटकसङ्घटितः' । उत्तमाः- प्रधानगुणा वक्ष्यमाणा दानादयः, त एव कनककटकंचामीकरकङ्कणं, तेन सङ्घटितः - संयोजितः, दानादिभिर्गुणैः संवलितं सुघटं च हाटककटकसङ्घटितस्य मणेः स्थैर्यं, तस्मादेवं सति गुणानां सङ्ग्रहो सञ्चयो, युक्तः समुचितः ।। ३० ।। अथ कथमयमियानाग्रहो गुणसङ्ग्रहे ? तदाह - ति यि जेण महग्घा ते चेव य सासया धुवं भुवणे । तत्तोहिन्तो वियर कुमुओयरसोयरा कित्ती ।। ३१ ।। भुव इति पदं प्रतिपदमभिसम्बध्यते । यतः कारणाद् भुवने जगति त एव गुणा एव महार्घाः स्वर्णमणिप्रभृतिभ्योऽपि दुर्लभाः । एवंविधा अपि कदाचिन्नश्वराः स्युरित्याह - त एव च गुणा एव च ध्रुवं निश्चितं जगति शाश्वताः अविनश्वराः आचन्द्रार्कावस्थायिनः, तेभ्य एव च गुणेभ्यो भुवने कीर्त्तिः प्रसिद्धिः प्रसरति । किंविशिष्टा ? कुमुदोदरसोदरा, कुमुदं - कैरवम्, तदुदरम्-अन्तःपुटम्, तत्सोदरा तत्तुल्या, बहिः कदापि रजः पङ्कादिशङ्कापि स्यादित्युदरपदोपादानम् ।।३१।। न चैतावदेव गुणगरिमविजृम्भितं, किन्त्वन्यदप्यस्तीत्येतदेव वक्ष्यमाणगाथाकुलकेनाह - तुल्ले तहाहि मणुयत्तणंमि जं केइ सेवगजणाणं । कप्पहुम व्व वंछियफलेहिं निचं चिय फलंति ।। ३२ ।। तथाहिशब्दः वस्तुतात्पर्योपदर्शनार्थः । तत् सर्व्वं चिरसञ्चितगुणानां माहात्म्यं जानीत इति कुलकपर्यन्तगाथया सम्बन्धः । यत् किम् ? यत् केचन सेवकजनेभ्यो वाञ्छितफलैः फलन्ति Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy