SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा - ६० आत्मवत् सर्वभूतेषु पश्यत ।। दया-हिंसयोः फलम् ।। - नेह भूयस्तमो धर्मस्तस्मादन्योऽस्ति भूतले । प्राणिनां भयभीतानामभयं यत् प्रदीयते । । १ । । वरमेकस्य सत्त्वस्य दत्ता ह्यभयदक्षिणा । न तु विप्रसहस्त्रेभ्यो गोसहस्रमलङ्कृतम् ।।२।। कपिलानां सहस्त्रं तु यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात् कलां नार्घति षोडशीम् || ३ || यो ददाति सहस्राणि गवामश्वशतानि च । अभयं सर्वसत्त्वेभ्यस्तद्दानमतिरिच्यते ॥ ४ ॥ मधेनुधरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके यः प्राणिष्वभयप्रदः । । ५ ॥ महतामपि दानानां कालेन क्षीयते फलम् । भीताभयप्रदानस्य क्षय एव न विद्यते । । ६ ।। दत्तमिष्टं तपस्तप्तं तीर्थसेवा तथा श्रुतम् । सर्वाण्यभयदानस्य कलां नार्घन्ति षोडशीम् ॥ ७॥ एकतः क्रतवः सर्वे समग्रवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ||८ ॥ न तद्दानानि सर्वाणि कुर्युर्यज्ञा यथोदिताः । सर्वतीर्थाभिषेकाश्च यत् कुर्यात् प्राणिनां दया । ९॥ [ 1 तदेवं सकलप्रेक्षावत्प्रतिष्ठितोऽयमहिंसालक्षण एव धर्मः सम्यगात्मनो दुःखमोक्षायेति । । ५९ ।। किं वा बहुभिरभिहितैः संभृतार्थमेवाह " Jain Education International 2010_02 - जं किं पि सुहं लोए तं जाणह पाणिरक्खणसमुत्थं । जं च दुहं तं सव्वं घोराओ पाणिघायाओ ।। ६० ।। ६३ आस्तां तावल्लोकोत्तरनराध्यक्षेषु स्वर्गमोक्षादिष्वहिंसाधर्मसमुत्थः सुखप्रकर्षः, इहापि लोके यत् किमप्यारोग्यसौभाग्यसुरूपसमृद्धिबन्धुरत्वोपादेयवचनत्वप्रभुत्वादिकं सुखमीक्ष्यते तत् सर्व प्राणिप्राणरक्षणसमुत्थं दयाधर्मसमुद्भूतं जानीत । तथा आस्तां रौरवनरकतिर्यगादिषु, इहापि यत् किमपि दौर्गत्य-दौर्भाग्य-रोग-शोक-परपराभवादिकं दुःखमसुमतामीक्ष्यते तत् सर्वं घोरानिस्त्रिशं For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy