SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ७१६ उत्तरज्झयणाणि - २ भवंति । सएणं लाभेणं तुस्सइ । परलाभं नो तक्केइ नो पीहेइ नो पत्थेइ नो अहिलसेइ । परस्स लाभं अणासाएमाणे अतकेमाणे अपीहेमाणे अपत्थेमाणे अणभिलसमाणे दोच्चं सुहसिज्जं उवसंपज्जित्ता णं विहरइ ॥ ३३ ॥ व्याख्या- सम्भोग एकमण्डलीभोक्तृत्वं तस्य प्रत्याख्यानं गीतार्थावस्थायां जिनकल्पप्रतिपत्त्यां परिहारः सम्भोगप्रत्याख्यानं तेनालम्बनानि ग्लानतादीनि क्षपयति तिरस्कृरुते सदोद्यत्वेन वीर्चाचारमेवालम्बते । निरालम्बनस्यायतो मोक्षः संयमो वा स एवार्थः प्रयोजनं येषामित्यायतार्थिका योगा व्यापारा भवन्ति प्रबन्धतः प्रवर्तन्ते । तथा स्वकीयेन लाभेन सन्तुष्यति निरभिलाषो भवति । ततश्च परलाभं नो तर्कयति यदिदं मह्यं दास्यतीति मनसा न विकल्पयति, नो स्पृहयति तच्छ्रद्धालुतयात्मनः स्पृहां नाविष्करोति, नो प्रार्थयते मह्यं देहीति न याचते, नो अभिलषति तल्लालसतया न वाञ्छति । एवंविधश्च कं गुणमाप्नोति ? तमेवोक्तमनूद्याह - तथा परस्य लाभमनास्वादयन्नभुञ्जानोऽतर्कयन्नित्यादिपूर्वोक्तगुणविशिष्टो 'दोच्चं' ति द्वितीयां सुखशय्यामुपसम्पद्य प्राप्य विहरति ईदृग्रूपत्वात् तस्याः । किञ्चानुवादसूत्रे 'अणासाएमाणे' इति दर्शनात् पूर्वत्रापि 'णो आसाए' त्ति वचोऽनुमीयते तच्च गम्यतया न निर्दिष्टं लेखकवैगुण्याद् न ज्ञायते ||३३|| सम्भोगप्रत्याख्यानवतश्चोपधिप्रत्याख्यानमपि सम्भवतीति तदाह उवहिपच्चक्खाणेणं भंते ! किं जणयइ ? । उवहिपच्चक्खाणेणं अपलिमंथं जणयइ । निरुवहिए णं जीवे निक्कंखे उवहिमंतरेण न संकिलिस्स ॥३४॥ व्याख्या- उपधेरुपकरणस्य रजोहरणव्यतिरिक्तस्य प्रत्याख्यानं न मयाऽसौ ग्रहीतव्य इत्येवं निवृत्तिरुपधिप्रत्याख्यानं तेन परिमन्थः स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्थस्तं जनयति । निरुपधिको जीवो निष्काङ्क्षो वस्त्राद्यभिलाषरहितः सन्नुपधिमन्तरेण न सङ्क्लिश्यते न मानसादिक्लेशमाप्नोति ॥ ३४ ॥ उपधिप्रत्याख्याता च जिनकल्पिकादिरेषणीयालाभेनोपोषित एवास्ते । अत आहार प्रत्याख्यानमाह आहारपच्चक्खाणेणं भंते जीवे किं जणयइ ? । आहारपच्चक्खाणेणं जीवियासंसप्पओगं वुच्छिदइ । जीवियसंसप्पओगं वुच्छिदित्ता जीवे आहारमंतरेणं न किलिस्सइ ॥ ३५ ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy