SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ३९५ जयन्तीप्रकरणवृत्तिः । ग्रन्थकारस्य प्रशस्तिः गच्छेऽस्मिन् प्रसृते क्षमानुगगुणैः शाखाभिरभ्युन्नते, येषां कुन्दसमुज्वलेन यशसा पुष्पायितं सर्वतः । तद्गन्धग्रहणाग्रहैकरसिका भव्यालयोऽहर्निशं, सङ्गीतं प्रथयन्ति सम्मदरसस्यापानतः स्वेच्छया ॥८॥ चञ्चच्चन्द्रकुले चरित्रनृपतेः श्रीराजधान्यामिह, प्रासादेषु महाव्रतेषु सुदुरारोहाग्रभागेष्वियं । येषां कीर्तिरमन्दमन्दपरिभ्रान्तिक्रमोल्लासितक्षीराम्भोधिविलोलवीचिरुचिरा नूनं पताकावली ॥९॥ यद्दीक्षा सुकृतोदयेन कृतिनां दाक्षायणी नायका, ज्योत्स्नैव प्रमदं विकाश्य कुमुदं दूरे रजांस्यऽस्यति । सन्तापं हरते गुणोघमनघं दुग्धोदधिं वर्धयत्, यस्मात्संवरवीचिसञ्चयवशात् मुक्तात्मलाभो भवेत् ॥१०॥ सिंहस्यापि लघोः क्रमेण भविता शौर्यं करीन्द्रापहं, बालस्यापि रवेर्महः प्रतिदिनं दृष्टं प्रतापावहं । एवं ज्ञानदृशा विभाव्य वयसि स्वल्पेऽपि तैः श्रीमतां, येषां शीलगणाभिधैः स्वगुरुभिश्चक्रे पदस्थापना ॥११॥ तेषां चिरं गच्छपतित्वभाजां श्रीमानतुङ्गाभिधसूरिराजाम् । शिष्या बभूवुर्गुणदिव्यरत्नरत्नाकरा वृत्तधरा धरित्र्याम् ॥१२॥ तेषु श्रीमलयप्रभाख्यगणभृत् शाखाधिराजोऽजनि, ज्ञानेन्दूदयशैलशृगसुभगोऽनुलध्यमानोन्नतिम् । ख्यातो यः सहशेषसूरिभिरिह स्वीयैः क्षमामण्डले, सूर्यो द्वादशमूर्तितामधिगतो भव्याम्बुजबोधकः ॥१३॥ एवं गुरुपर्वकर्मसम्बन्धे जयति श्रीवीरजिनतीर्थे । श्रीमानतुङ्गगुरुभिः कृते जयन्त्या महासत्याः ॥१४॥ प्रश्नोत्तरप्रकरणे परिवाराभ्यर्थने स्वगुरुभक्त्या । अविभक्तधर्मचन्द्राभिधगणिना भागिनेयेन ॥१५॥ भणितैः श्रीमलयप्रभसूरिभिरेषा विचित्रदृष्टान्तैः । संवेगाय यथामति जगति जयन्तीकथा प्रथिता ॥१६।। 15 20 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002561
Book TitleJayantiprakaranvrutti
Original Sutra AuthorMalayprabhsuri
AuthorChandanbalashreeji
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages462
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy