SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 5 १९४ जयन्तीप्रकरणवृत्तिः । गाथा ४।५।६ ___ अदत्तादानं पुनः तृतीयं पापस्थानं, धनं हि प्राणिनां बाह्याः प्राणा:, तदुपबंहिता एवान्तरा अपि प्राणाः चिरकालं स्थितिभाजो भवन्ति, धनार्थितया हि जीवाः प्रतिपद्यन्ते दास्यं, लज्जां परित्यज्य धनिनां पुरतः कुर्वन्ति लास्यं, ब्रूवन्ति चटूनि, अग्रतो धावमानाः प्रवर्तयन्ति पदानि पटूनि, प्रविशन्ति सङ्ग्रामं, परिभ्राम्यन्ति ग्रामानुग्रामं, व्रजन्ति देशान्तराणि, श्रयन्ति विवराणि, आरोहन्ति गिरिशिखराणि, तरन्ति वारान्निधिं, अहर्निशं प्रतिपद्यन्ते सेवया सदा संनिधि, विशन्ति स्मशाने, निश्चला भवन्ति अर्थप्रदायिमन्त्रसाधनाय ध्याने, धमन्ति धातून्, पीडयन्ति जन्तून्, क्रीडन्ति द्यूतेन, खेलन्ति सार्धं घूभूतेन, सर्वथा अपरापरव्यापारपरायणाः सहन्ते शीतातपतृष्णाबुभुक्षापराभवादिक्लेशं, नानुभवन्ति सुखलेशं, धनमूर्छया हि सम्पादयन्ति सन्देहदोलाधि10 रूढानान्तरप्राणानिति, परद्रव्यापहारः प्रयच्छति प्राणिनां महतीं दुःखपरम्पराम्, अत: कथमिव अदत्तादानं न भवति महापापस्थानं, अन्यच्च परद्रव्यापहरणं प्रयच्छति कारागारं, वितरति दुःखसंभारं, ददाति प्राणापहारं, झटिति उद्घाटयति दुर्गतिद्वारम् ॥ किञ्च सयलसुहपावयाणं ताविक्कनिबन्धणं मणे काउं । परदव्वहरणपावं मुणन्ति मुणिणो महादावं ॥१॥ छेयणभेयणताडणबन्धणमरणाइ दव्वहरणेण । पावन्ति जिया सहसा जह एसा दुल्ललियगोट्ठी ॥२॥ तथाहि 86 कमलं व वसन्तपुरं लच्छीलीलागिहं पुरा आसि । 20 रायकरप्पसरेणं अच्छरियं जमिह सवियासं ॥१॥ सत्तेक्कधणो विक्कमपंकेरुहसूरमंडलपयावो । अरितिमिरनियरहरणो जियसत्तू आसि तत्थ निवो ॥२॥ पुव्वभवज्जियपुन्नपभावओ पवररिद्धिसंभारा । थेरी वसन्तसेणा आसि तया तत्थ बुद्धिमई ॥३॥ जूयाइवसणसत्ता तरुणतरट्टाणभट्टचट्टाण । हुत्था तम्मि य समए तम्मि पुरे दुल्ललियगोट्ठी ॥४॥ आबालकालमुणिपुंगवाण चरणारविन्दसेवाए । चोरक्किच्चायनियमो सावयपुत्तो य तत्थासी ॥५।। 15 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002561
Book TitleJayantiprakaranvrutti
Original Sutra AuthorMalayprabhsuri
AuthorChandanbalashreeji
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages462
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy