SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ६ ध्यानशतकम् चरन्ति तत्प्रयोजना वा अज्ञानिकाः - असञ्चित्य कृतवैफल्यादिप्रतिपतिलक्षणा अमुनोपायेन सप्तषष्टिर्ज्ञातव्याःतत्र जीवादिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वम् असत्त्वं सदसत्त्वम् अवाच्यत्वम् सदवाच्यत्वम् असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा— सत्त्वम् असत्त्वं सदसत्त्वम् अवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किम् ? एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति ? एतन्न कश्चिदपीत्यभिप्रायः । वेणइयाणं च बत्तीसंति- वैनयिकानां च द्वात्रिंशद् भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्या:- सुर-नृपतियति-ज्ञाति-स्थविराधम- मातृ-पितृणां प्रत्येकं कायेन वचसा मनसा दानेन च देश - कालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः, सुरादिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि । न चैतत् स्वमनीषिकाव्याख्यानम्, यस्मादन्यैरप्युक्तम् आस्तिक मतमात्माद्या नित्यानित्यात्मका नव पदार्थाः । काल-नियति-स्वभावेश्वरात्मकृताः [तकाः ] स्व-परसंस्था ||१|| काल-यदृच्छा-नियतीश्वर - स्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति भावाः स्वपरसंस्थाः ।।२।। अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पतिं सदसद् - द्वैतावाच्यां च को वेत्ति ? || ३ || वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थवि - राधममातृपितृषु सदा ||४|| इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या- पुण्यभाज एते, सुलब्धमेभिर्यद् जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणम् - पाडलिपुत्ते चाणक्को, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणक्कं पलोएति, ण य पसंसति ण देति, तेण चाणक्कभज्जा ओलग्गिता, ताए सो करणि गाहितो, ताधे कथितेण भणितं तेण सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणक्को भणति - कीस दिन्नं ? राया भणइ - तुज्झेहिं पसंसितं, सो भणइ - ण मे पसंसितं, सव्वारंभपवित्ता कहं लोगं पत्तियाविंतित्ति ! पच्छा ठितो, केत्तिता एरिसा तम्हा ण कायव्वा । ५ परपाषण्डैः अनन्तरोक्तस्वरूपैः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनितः परिचयः संवसन-भोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'असंस्तुतेषु प्रसभं कुलेषु...' इत्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियाश्रवणात् तत्क्रियादर्शनाच्च तस्यासकृदभ्यस्तत्वादवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः सञ्जायते अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति । अत्र चोदाहरणं- सोरट्ठसङ्कगो पुव्वभणितो । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy