SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीजगडूचरितं महाकाव्यम् वासाभिधः समजनिष्ट विशिष्टबुद्धिः, सत्पात्रपाणिविमलीकृतभूरिवित्तः ॥२६॥ नीचाननाश्रयभवात्मतमोऽपहन्तु, वाग्देवता भगवतीव जगाम सापि । सत्कीर्तिपूरपरिपूरितदिङ्मुखस्य, यस्याननं रुचिरसत्यगिरा पवित्रम् ॥२७॥ आकर्ण्य पन्नगवधूजनगीयमानमुद्दामदानविधिजातयश:समूहम् । यस्यान्वहं बलिरसौ च रसातलस्थः, सेहे दृढं हि निजबन्धनतापदुःखम् ॥२८॥ श्रीवीसलस्तु (१) नयवानथ वीरदेवो (२), नेमिश्च (३) निर्मलयश:कलितश्च चाण्डूः (४)। श्रीवत्स (५) इत्यनघवैभवभूषितस्य, पञ्चाङ्गजाः शुशुभिरे किल यस्य धन्याः ॥२९॥ कल्पद्रुमैरिव सुमेरुगिरिः प्रशस्तैः, साधुव्रतैरिव मुखैरिव वामदेवः । अङ्गैर्महीदयितमन्त्र इव व्यराजद्यः पञ्चभिः कृतिभिरङ्गभवैरमीभिः ॥३०॥ वर्ण्यः कथं न स कृती किल वीसलाख्यो, यस्य प्रशस्यगुणवर्णनकारणेन । १. सहायाः साधनोपायाः, विभागो देशकालयोः । विनिपात-प्रतीकारः, सिद्धिः पञ्चाङ्गमिष्यते ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002555
Book TitleJagducharitam Mahakavyam
Original Sutra AuthorSarvanandsuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages172
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy